________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः
[देवोत्पाते राज्ञो विशेषः] आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोके च । पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः॥ ४२ ॥
लिङ्गादिवैकृतं तत्फलञ्च] अनिमित्तचलनभङ्ग-स्वेदानिपातजल्पनाद्यानि । लिङ्गार्चायतनानां नाशाय नरेशदेशानाम् ॥ ४३॥
४२ । अत्र दैवोत्पाते राज्ञः फलस्य व्यापकतामाह-आत्मेति। यद्वा येऽत्र प्रकरणे उक्तास्तेषां राजन्येव फलपाक इति स्थिते तत्सम्बन्धितया के के फलभागिनः स्युरित्यपेक्षायामाहआत्मेति। कस्योत्पासस्य कुत कीदृशः फलपाके इत्युपरिष्टाद् वक्ष्यते। नृपतेरिति सर्वत्र सम्बध्यते। तथा च नृपतेरात्मनि शरीरे सुते पुत्रे कोषे धनागारे वाहनेषु हस्त्यश्वादिषु पुरे नगरे दारेषु भार्यासु पुरोहिते आचार्य लोके प्रजासु चेत्यष्टधा अष्टप्रकारेण परिकल्पितं दैवमद्भुतं पाकं याति फलं ददाति । 'लोके जनपदे' इत्युत्पलभः (अ० ४५, ७ श्लो०)। व्यक्तमाह मत्स्यपुराणे
राज्ञः शरीरे लोके च पुरदारे पुरोहिते।
पाकमायाति पुत्रेषु तथा वै कोषवाहने ॥ (अ० २२९, १३ श्लो०) __ अत्र देवोत्पात एवायं राज्ञः फलविशेष उक्तः, पूर्वोक्तमत्स्यपुराणवचने तु एवंविधफलस्यौत्पातसाधारण्यमिति विशेषः। एतेन प्राकृतजनविषय उत्पातः प्रातिस्विकफल इत्यवधेयम् ।
४३। चरस्थिरभवमिति यत् स्थिरस्य चरधर्माक्रान्तिलक्षणं भौममदभुतम् उत्पलभव्याख्यास्वरसात् पूर्वमुक्तं तदेव विवियते-भनिमित्तेत्यादिना। अथवान्यदेवेदं पूर्वोक्तभ्य उत्पातेभ्यो लिङ्गादि वैकृतं नामेति तदाह-अनिमित्तेत्यादिना लिङ्ग शैवम् अर्वा देवप्रतिमा आयतनं सिद्धं देवस्थानम् एषाम् अनिमित्तं चलनादिप्रयोजकवाय्वभिघातादिकारणं विनेत्यर्थः। चलनं कम्पः, निपातः पतनम् , जल्पनम् असम्बद्धोक्तिः। आद्यग्रहणाद वमनं प्रसर्पणञ्चेत्युत्पलभट्टः। एतानि नरेशस्य राज्ञः देशस्य जनपदस्य च नाशाय भवन्ति ।
यद्यपि 'द्वन्दात् पूर्व परं वा यच्श्रयते तल्लभते प्रत्येकमभिसम्बन्धमिति न्यायाद् द्वन्द्वस्थचलनादिसर्वपदार्थैः सहैवानिमित्तमित्यस्यान्वयो न्याय्यस्तथापि सामर्थ्याच्चलनभङ्गनिपातैरेवा. न्वयो न वितरैरपि, तेषां तदन्वयेऽसामर्थ्यात् , न यस्ति कारणं लिङ्गादीनां स्वेदाश्रुजल्पनेषु किमपि, येन तद्वयावृत्तये अनिमित्ततया तानि विशेष्येन्नित्यवधेयम् । ..
For Private And Personal Use Only