________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः
[गर्भगेहप्रमाणेन ज्येष्ठादिप्रतिमाकथनम् ] गर्भगेहत्रिभागेण ज्येष्ठाऽर्चा कथिता बुधैः। मध्यमा च दशांशेन(शोना) पञ्चांशेना(शोना) कनीयसी ॥२१॥ सप्तांशे गर्भगेहे तु द्वौ भागौ परिवर्जयेत् । पञ्चभागो भवेदेवः शयनस्थः सुखावहः ॥२२॥ अष्टलोहमयी मूर्तिः शैलरत्नमयी तथा। श्रेष्ठवृतमयी वाऽपि प्रवालादिमयी शुभा ॥२३॥ २१। गर्भेत्यादि । त्रिभागीकृतस्य गर्भगेहस्य भागेनैकेन कृता अर्चा ज्येष्ठा, षोडशधा विभक्तस्य गर्भगृहस्य दशांशोना अर्थात् सार्द्धपादप्रमाणा प्रतिमा मध्यमा ; तथा पञ्चांशोना प्रतिमा कनीयसी कनिष्ठा इत्यर्थः।।
अत्र यद्यपि 'त्रिभागेण' इति शुद्धपाठसमीपचर्यया 'दशांशेन' इत्यत्राप्यसन्दिग्धत्वेन प्रतीयमानः पाठः परिवृत्तिबुद्धिं विलुम्पति, तथापि 'पञ्चांशेना' इति विकृतपाठदर्शनात्तस्य च प्रकृत्यनुसन्धित्सया 'पञ्चांशोना' इति पाठः प्रथमतः शुद्धत्वेन बुद्धिमारोहति, ततश्च मध्यमत्वादिक्रमान्यथानुपपत्त्या सर्वत्रैव 'ऊना' इति पाठः सम्यक्तया प्रतिभातीति स एवास्माभिरनुसृतः । क्रमानुपपत्तिस्तु
अङ्गष्ठपर्वादारभ्य वितस्तिर्यावदेव तु ।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ इत्यादिवचनादूनप्रमाणाया एवं प्रतिमाया ज्यष्ठं प्रतीयते, प्रमाणाधिकायास्तु कानिष्ठ्यम् । इत्थञ्च गर्भगृहदशांशेन निर्मिता प्रतिमा प्रमाणाधिकेति तस्याः कानिष्ठ्ये प्राप्ते, पञ्चांशेन निर्मिता तूनप्रमाणेति तस्या अपि मध्यमत्वे प्राप्ते तदुभयविपरीतं प्रमाणाधिकायाः प्रतिमाया माध्यमिकत्वमूनप्रमाणायाश्च कानिष्म्यम् उपदिशन् यथाश्रुतः पाठः क्रमदुःस्थ इति हेयपक्ष एव निक्षेप्तव्यः। तदेतत् सर्वं विस्पष्टमुक्तं स्वयं ग्रन्थकारेण तदीयरूपमण्डने
तृतीयांशेन गर्भस्य प्रासादे प्रतिमोत्तमा ।
मध्यमा स्वदशांशोना पञ्चांशोना कनीयसी ॥ इति २३ । अष्टलोहबिम्बानि, यथा
सौवर्ण राजतं तानं पैत्तलं कांस्यमायसम् ।
सैसकं व्यापुपञ्चेति लौहं बिम्बं तथाऽष्टधा ॥ बिम्बरत्नानि, यथा
स्फटिकं पद्मरागञ्च वज्रनीलं हिरण्मयम् । वैदूर्म विद्रुमं पुष्पं रत्नविम्ब तथाऽष्टधा ॥
For Private And Personal Use Only