________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम्
[ मध्यमप्रतिमापरिमाणम् ] द्वारं विभज्य नवधा भागमेकं परित्यजेत् । अष्टौ भागांस्त्रिधा कृत्वा द्विभागे प्रतिमा भवेत् ।
[कनिष्टप्रतिमापरिमाणम् ] त्रिभागैर्भाजिते द्वारे द्विभागेऽर्चा प्रकोर्तिता ॥१६॥
इति प्रासाद्वारमानेन प्रतिमाप्रमाणम् ।
.........हीनायां विदध्याद द्वारमष्टधा।
"(व ? क) मुत्सृज्य शेषेण * * * * * * ॥ (अः ७०, १४९. श्लो॰) इत्यपि यदुक्तं तत्तु प्रक्रान्तश्लोकानुसारीति दृश्यते । एवम् अस्माभिरुपरिष्टात् प्रदर्शयिष्यमाणं तदुक्तमध्यमप्रतिमापरिमाणमपि वक्ष्यमाणमध्यमप्रतिमापरिमाणानुसारीति ज्ञेयम् । न चैवं समराङ्गगसूत्रधारप्रामाण्यात् प्रकृतेऽपि ग्रन्थे वैपरीत्येन अधममध्यमोत्तमप्रतिमापरिमाणलक्षकतया श्लोकानां परिपाटीः स्वीकृत्य तदेकवाक्यता करणीयेति वाच्यम् , बृहत्संहितायां मध्यमादिभेदमनादृत्य केवलमेतच्छोकोतपरिमाणस्यैव ग्रहणेनास्यवोत्तमत्वस्वीकारात्। मत्स्यपुराणेऽपि
द्वारोच्छ्यस्य यन्मानमष्टया तत्तु कारयेत् । भागमेकं ततस्त्यक्ता परिशिष्टन्तु यद भवेत् ॥
भागद्वयेन प्रतिमा............। (अ० २५८, २४-२५ श्लो०) इति द्वारमानेनैकमेव प्रतिमापरिमाणमुक्तमिति सर्व सुसमञ्जसम् ।
१६ । मध्यमाधमप्रतिमापरिमाणमाह-द्वारमिति विभागैरिति च । स्पष्टोऽर्थः। मध्यमप्रतिमालक्षणमाह समराङ्गणसूत्रधारे
मध्यायां नवधा द्वारं कृ (ते ? त्वै ) के भागमुत्सृजेत् । शेषान् भागांस्त्रिधा कृत्वा पीठं भागेन कल्पयेत् ॥
अर्चामुभाभ्याम्............। इति । (अ० ७०, १४८-१४९ श्लो०) अधमप्रतिमापरिमाणमप्याह तत्रैव-'हीनायां विदध्याद द्वारमष्टधे'त्यादि प्रागेवोल्लिखितम् । द्वारप्रमाणायाः प्रतिमाया विनियोगमाह समराङ्गगसूत्रधारे
‘यात्रार्था प्रतिमा द्वारप्रमाणेन विधीयते। इति । (अ० ७-१४६) यात्रा उत्सवार्थं निर्मिता।
द्वारमानेन प्रतिमापरिमाणेऽन्येऽपि विशेषाः समराङ्गणसूत्रधारतो जिज्ञासुभिर्विज्ञेया ।
प्रतिमानां मुखाद्यवयवपरिमाणादिकज्ञ मत्स्यपुराण ( अ० २५८)-बृहत्संहिता (अ० ५७)काभ्यपशिल्प (अ० ५०)-समराङ्गणसूत्रधारादिषु (अ० ७६) द्रष्टव्यम् ।
For Private And Personal Use Only