SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kailasagarsur Gyarmandie रूपामवस्थां ज्ञात्वा मितां भूमि गृहस्थैरनुज्ञातां पराक्रमेत, यत्र तेषामप्रीतिर्न जायते. २४ विधिशेषमाह-तत्थेति मुनिस्तत्रैव तस्यामेव मितायां भूमौ सूत्रोक्तविधिना भूमिभागमुचितभूमिप्रदेशं प्रत्युपेक्षेत तत्र च तिष्ठत्, किंभूतो मुनिः ? विचक्षणो विद्वान्, एतद्विशेषणेन केवलागीतार्थस्य भिक्षाटननिषेधमाह-गुनः स्नानस्य तथा वर्चसा सल्लोकं परिवर्जयेत्, अयं परमार्थःस्नानभूमिकायिक्यादिभूमिसन्दर्शनं परिहरेत्, कुतः ? प्रवचनलाववप्रसङ्गात् अप्राकृतस्त्रीदर्शनाच्च रागादिसम्भवात्. २५/ तत्थेव पडिलेहिजा भूमिभागं विअक्खणो। सिणाणस्स य बच्चस्स संलोगं परिवजए २५. दगमट्टिअआयाणे बीआणि हरिअणि अ । परिवजंतो चिहिज्जा सविदिअसमाहिए २६. तत्थ से चिट्ठमाणस्स आहारे पाणभोअणं । अकप्पिन गेण्हिज्जा पडिगाहिज कपिअं२७. दगेति-पुनः किम्भूतो मुनिः ? एतानि परिवर्जयस्तिष्ठेत् पूर्वोक्त उचितप्रदेशे, कानि ? उदकमृत्तिकयोरानयनमार्ग, पुनवीजानि शाल्यादीनि, हरितानि दूर्वादीनि, चशब्दादन्यान्यपि सचेतनानि, किंभूतो मुनिः? सर्वेन्द्रियसमाहितः शब्दादिभिरव्याक्षिप्तः २६ तत्थेति-तत्रोचितभूमौ से तस्य साधोस्तिष्ठतः सतो गृहीति शेषः, पानभोजनमाहरेदानयत्, तत्रायं विधिःअकल्पिकमनेषणीयं न गृहीयान इच्छेत्, प्रतिगृहीयात् कल्पिकम्, एतच्चार्थापन्नमपि कल्पिकग्रहणं द्रव्यतः शोभनमशोभनमपि For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy