________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्थानम्. १७. अथाष्टादशं स्थानमाह - तथा प्रत्येकं पुण्यपापमिति मातापितृकलत्वादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं | पृथक्पृथग्येनानुष्ठितं तस्य कर्तुरेव तदिति भावार्थः, एवमष्टादशं स्थानम्. १८. 'भवइ अ इत्थ सिलोगो भवति चात्र श्लोकः, अत्रेत्यष्टादशस्थानानां सम्बन्धे, उक्तानुक्तसङ्ग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशस्ततश्च श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः जयेति यदा चैवमष्टादशसु स्थानेषु व्यावर्त्तनकारणेषु सत्स्वपि यो वेत्ता मुक्खो नस्थि अवेत्ता तव सा वा झोसइत्ता १८ अट्ठारसमं पयं भवइ, भवइ अ इत्थ सिलोगो । जया च धम्मं अज्जो भोगकारणा । से तत्थ मुच्छिए बाले आयइं नावबुज्झइ १.
या ओहाविओ होइ इंदो वा पडिओ छमं । सव्वधम्मपरिब्भहो स पच्छा परितप्पई २.
बालोऽजो धर्म चारित्रलक्षणं जहाति त्यजति स आयतिमागामिकालं नावबुद्धयते सम्यमावगच्छति, किम्भूतो बालः १ अनार्य इव, अनायों म्लेच्छचेष्टितः किमर्थ धर्म त्यजतीत्याह - भोगकारणाय शब्दादिभोगनिमित्तं किम्भूतो बालः १ तत्र मूर्च्छितः तेषु भोगेषु मूच्छितो गृद्धः. १. एतदेव दर्शयति- जयेति यदा चावधावितोऽपसृतो भवति यः कोऽर्थः संयमसुखविभूतेः सकाशादुत्प्रव्रजित इत्यर्थः, तदा इन्द्रो वा देवराज इव क्षमां पतितः, स्वविमानविभवभ्रंशेन भूमौ पतित इति भावः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir