________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri K
asagarsuri Gyarmandie
---
-
संनिहीति-सन्निधीयतेऽनेनारमा दुर्गताविति सन्निधिः, गुडघृतादीनां सञ्चयकरणं, गृहमत्रं च गृहस्थभाजनं, राजपिण्डश्च नृपाहारः, किमिच्छसीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोन्यो वा सामान्येन, तथा संबाधनमस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं, दन्तप्रधावनं चागुल्यादिना मुखक्षालनं, संप्रश्नःसावद्यो गृहस्थविषयः, शोभार्थ कीदृशो वाहमित्यादिरूपः, देहप्रलोकनं चादर्शादी, अनाचरितदोषाश्च सन्निधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वबुद्धया वाच्याः ३. किञ्च
अट्ठावय इति-अष्टापदमित्यष्टापदं गतमर्थपदं वा गृहस्थमधिकृत्य निमित्तादिविषयमनाचरितं, तथा नालिका चेति ___संनिहिगिहिमत्ते य रायपिंडे किमिच्छए। संबाहणंदंतपहोयणा य संपुच्छणे देहपलोयणा य ३.
अट्ठावए य नालीए छत्तस्स य धारणहाए । तेगिच्छं पाहणाप्पाए समारंभं च जोइणो ४. तविशेषलक्षणा, यत्र माभूत्कलयान्यथा ? पाशकपातनमिति नालिकया पात्यन्त इति, इयं चानाचरितं. छत्रस्य धारणमात्मानं परं वा प्रति अनायति. आगाढग्लानाद्यालम्बनं मुक्त्वानाचरितं, प्राकृतशैल्यात्रानुस्वारलोपः, अकारणकारलोपी च दृष्टव्यौ, तथा श्रुतिप्रामाण्यादिति. 'तेगिच्छति' चिकित्साया भावश्चैकित्स्य व्याधिप्रतिक्रियारूपमनाचरितम्. उपानही | पादयोरनाचरिते, पादयोरिति साभिप्रायकं, न त्वापत्कल्पपरिहारार्थमुपग्रहधारणेन. समारम्भश्च समारम्भणं ज्योतिषो वहे. दोषाश्चाष्टापदादीनां सुगमा एवेति. ४.
-
For Private and Personal Use Only