SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3582 A DESCRIPTIVE CATALOGUE OF End: द्रवत द्रवताशु मायिनः प्रविशध्वमतन्द्रिता गुहाः । कमलारमणाम्बराश्रयस्समुदेत्यखिलज्ञभास्करः ।। पूर्ववद्विवेचनम् । मायिनश्चोराः मायावादिनश्च । समुदेति; यत इति शेषः । नृहरिः सकलज्ञनामकः समुपैति हि मायिदानवान् । प्रपलायनमत्र तत्क्षमं त्वरया वो वसतिगुंहासु च ॥ हिशब्दो हेतौ। जयत्यानन्दतीर्थेष्टदेवता नरकेसरी । विपाटिताज्ञानतमःकवाटात्युरुहुकृतः ॥ जयति उत्कृष्टो वर्तते । अज्ञानं तम इव अज्ञानतमः प्रकाशप्र. तिबन्धकत्वात् तत्कवाटमिव अज्ञानतमःकवाटं परमपुरुषाराधनधामप्रवेश. प्रतिबन्धकत्वात् विपाटितमज्ञानतमःकवाटं येन तत् विपाटिताज्ञानतमःकवाटम् । उरु हुकृतं हुङ्कारो यस्यासौ तथोक्तः । अत्राज्ञानं मायामतमेवाभिमतम् । प्रसङ्गात् । जयत्यमितपौरुषः स्वजनतेष्टचिन्तामणिः । अशेष(जेश)मुखवन्दितो गुणगणार्णवः श्रीपतिः ॥ जनता जनसमूहः । भजितो जयति . . . . रमाबाहुलताश्रयः ॥ श्रीमदानन्दतीर्थार्यमनःकमलमन्दिरः । कमलाश्लेषसंसक्तः प्रीयतां नः परः पुमान् ।। Colophon: इति श्रीमदानन्दतीर्थभगवत्पादविरचिततत्त्वोद्योतटीका जयतीर्थरचिता समाप्ता ॥ श्रीपूर्णप्रज्ञरचिततत्त्वोद्योतस्य पञ्चिका । श्रीमज्जयार्यरचिता लिखिता प्रीतये हरेः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy