SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 A DESCRIPTIVE CATALOGUE OF शिरसा शिवभक्तानां पादाम्बुजरजाकणान् / वन्दामहे वयं नित्यमज्ञानध्वान्तभास्करम् // मुनयो नैमिशारण्ये दीर्घसत्रकृतश्रमाः। अष्टादशपुराणज्ञमपृच्छन् सूतमागतम् / / सूत सर्वपुराणज्ञ व्यासशिष्य महामते / सन्दिहाना वयं सर्वे पृच्छामस्त्वां महत्तमम् / / वेदानामागमानां च मन्त्राणामपि कर्मणाम् / प्रतिपादकवाक्यानां वाक्यानां महतामपि / कुत्र पर्यवसानार्थो जगतां कारणं च किम् / विचारितेऽपि वेदान्ते तदर्थेऽवगतेऽपि च / / कर्मसन्धानुवृत्तिश्च न मुश्चति कथं पुनः / एतत् सर्वमशेषेण विस्तराद्वक्तुमर्हसि // .. इति पृष्टो मुनिवरैः सूतः सर्वार्थतत्चवित् / नमस्कृत्वा महाभागः शिवाय गुरुमूर्तये // विघ्नेश भारती देवी महासेनं च नन्दिनम् / महाविष्णुं च धातारं पार्वतीमद्रिकन्यकाम् // वेदव्यासमगस्त्यं च व्याघ्रपादं पतञ्जलिम् / दधीचिं भार्गवं रामं जैमिनि गौतमं भृगुम् / / उपमन्यु च कौन्तेयं मार्कण्डेयं महामुनिम् / वेदशास्त्रगुरुनन्यान् सम्प्रदायगुरूनपि // शिवभक्तान् महाभागान् नत्वायं करणस्त्रिभिः। त्रैलोक्यपावनं पुण्यं चित्रं भक्तकथामृतम् // नाम्ना भक्तविलासाख्यं पुराणं लोकवन्दितम् / हरभक्तमुनिप्रोक्तं वक्तुं समुपचक्रमे / / . For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy