________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
॥ ६३ ॥
www.kobatirth.org
नु नाम दुःखनिबन्धनद्रव्याद्यवगमात्तयोः संवेगस्थैर्ये स्यातां ? द्रव्यादिषु चाप्रतिबन्ध इति गाथार्थः । तथा चाहनि०- दविअं कारणगहिअं विगिंचि अव्वमसिवाइखेत्तं च । बारसहिं एस्सकालो कोहाड़विवेग भावम्मि ।। ५८ ।।
इहोत्सर्गतो मुमुक्षुणा द्रव्यमेवाधिकं वस्त्रपात्राद्यन्यद्वा कनकादि न ग्राह्यम्, शिक्षकाहिसंदिष्टादिकारणगृहीतमपि तत्परिसमाप्तौ परित्याज्यम्, अत एवाह- द्रव्यं कारणगृहीतम्, किं! विकिंचितव्यं परित्याज्यम्, अनेकैहिकामुष्मिकापायहेतुत्वात्, दुरन्ताग्रहाद्यपायहेतुता च मध्यस्थैः स्वधिया भावनीयेति । एवमशिवादिक्षेत्रं च, परित्याज्यमिति वर्त्तते, अशिवादिप्रधानं क्षेत्रमशिवादिक्षेत्रम्, आदिशब्दादूनोदरताराजद्विष्टादिपरिग्रहः, परित्याज्यं चेदमनेकैहिकामुष्मिकापायसम्भवादिति । तथा द्वादशभिर्वर्षैरेष्यत्कालः, परित्याज्य इति वर्त्तते, तत एवापायसम्भवादिति भावना, एतदुक्तं भवति- अशिवादिदुष्ट एष्यत्कालः द्वादशभिर्वर्षैरनागतमेवोज्झितव्य इति, उक्तं च-' - संवच्छरबारसएण होहिति असिवंति ते तओ णिति । सुत्तत्थं कुव्वंता अतिसयमादीहिं नाऊणं ॥ १ ॥ इत्यादि । तथा 'क्रोधादिविवेको भाव' इति क्रोधादयोऽप्रशस्तभावास्तेषां विवेकः- नरकपातनाद्यपायहेतुत्वात्परित्यागः, भाव इति- भावापाये, कार्य इत्ययं गाथार्थः ॥ एवं तावद्वस्तुतश्चरणकरणानुयोगमधिकृत्यापायः प्रदर्शितः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यते
नि० - दव्वादिएहिं निच्चो एगतेणेव जेसि अप्पा उ होइ अभावो तेसिं सुहदुहसंसारमोक्खाणं ।। ५९ ।।
द्रव्यादिभिः द्रव्य क्षेत्रकालभावैः नारकत्वविशिष्टक्षेत्रवयोऽवस्थितत्वाप्रसन्नत्वादिभिः नित्यः अविचलितस्वभावः एकान्तेनैव सर्वथैव येषां वादिनां आत्मा जीवः तुशब्दादन्यच्च वस्तु भवति संजायते अभावः असंभवः तेषां वादिनां केषां ? - सुखदुःख
@ संवत्सरद्वादशकेन भविष्यति अशिवमिति ते ततो निर्यान्ति सूत्रार्थं कुर्वन्तोऽतिशयादिभिर्ज्ञात्वा ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रथममध्ययनं
डुमपुष्पिका,
सूत्रम् १
निर्युक्तिः ५८. चरणकरणा
नुयोगमधि
कृत्यापायनिरूपणम्। निर्युक्तिः ५९ द्रव्यानुयोगमधिकृत्यापायनिरूपणम् ।
।। ६३ ।।