________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥४८॥
प्रथममध्ययनं दुमपुष्पिका, सूत्रम् १ नियुक्ति: ४८
प्रतिपादनम्।
पायच्छित्तंति भण्णए तम्हा। पाएण वावि चित्तं विसोहई तेण पच्छित्तं ॥१॥तत्पुनरालोचनादि दशधेति, उक्तंच- आलोयणपडिक्कमणे । मीसविवेगेतहा विउस्सगे। तवछेअमूलअणवठ्ठया य पारंचिए चेव॥१॥भावार्थोऽस्या आवश्यकविशेषविवरणादवसेय इति । उक्तं प्रायश्चित्तम्, साम्प्रतं विनय उच्यते- तत्र विनीयतेऽनेनाष्टप्रकारं कर्मेति विनय इति, उक्तं च-विनयफलंशुश्रूषा गुरुशुश्रूषाफल श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥१॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः । क्रियानिवृत्तेरयोगित्वम्॥२॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः। तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ ३॥ स च । ज्ञानादिभेदात् सप्तधा,उक्तं च-णाणे दसणचरणे मणवइकाओवयारिओ विणओ।णाणे पंचपगारो मइणाणाईण सद्दहणं॥१॥ भत्ती । तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया। विहिगहणब्भासोवि अ एसो विणओ जिणाभिहिओ॥ २॥ सुस्सूसणा आणासायणा य विणओ अदंसणे दुविहो । दसणगुणाहिएसुंकजइ सुस्सूसणाविणओ॥३॥ सक्कारब्भुटाणे सम्माणासण अभिग्गहो तह य। आसणअणुप्पयाणं किइकम्म अंजलिगहो अ॥४॥ एतस्सणुगच्छणया ठिअस्स तह पवासणा भणिया। गच्छताणुव्वयणं एसो सुस्सूसणाविणओ॥ ५॥ इत्थ य सक्कारो- थुणणवंदणादि अब्भुट्ठाणं-जओ दीसइ तओ चेव कायव्वं, संमाणो वत्थपत्तादीहिं
प्रायश्चित्तमिति भण्यते तस्मात् । प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥१॥ आलोचना प्रतिक्रमणं मिश्रं विवेकस्तथा व्युत्सर्गः। तपश्छेदो मूलमनवस्थाप्यं उच पाराश्चिकं चैव ॥१॥ अत एव नात्र चूर्णाविव स्थानदर्शनम्। जाने दर्शने चरणे मनोवाक्कायेषु औपचारिको विनयः । ज्ञाने पञ्चप्रकारः मति-ज्ञानादीनां श्रद्धानम् ॐ॥१॥ भक्तिस्तथा बहुमानः तद्दृष्टार्थानां सम्यग्भावनता। विधिग्रहणमभ्यासोऽपि च एष विनयो जिनाभिहितः ॥ २॥ शुश्रूषा अनाशातना च विनयः दर्शने द्विविधः ।। दर्शनगुणाधिकेषु क्रियते शुश्रूषाविनयः ॥ ३ ॥ सत्कारोऽभ्युत्थानं सन्मानमासनाभिग्रहस्तथा च । आसनानुप्रदानं कृतिकर्माञ्जलिग्रहश्च ।। ४ । आगच्छतोऽनुगमनं स्थितस्य तथा पर्युपासना भणिता । गच्छतोऽनुव्रजनमेष शुश्रूषाविनयः ॥५॥ 0 अत्र च सत्कार:- स्तवनबन्दनादि अभ्युत्थानं- यत्र दृश्यते तत्रैव कर्त्तव्यं सन्मान वस्त्रपात्रादिभिः -
॥४८॥
For Private and Personal Use Only