________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदश-
वैकालिक श्रीहारिक वृत्तियुतम् ॥२८॥
प्रथममध्ययन दुमपुष्पिका, नियुक्ति: ३५ दुमपर्यायशब्दाः । नियुक्तिः ३६-३० पुष्पेकार्थिकानि सुसमादृष्टान्तादिव।
भवति निक्षेप इति गाथार्थः ।। साम्प्रतं नानादेशजविनेयगणासम्मोहार्थमागमे द्रुमपर्यायशब्दान् प्रतिपादयन्नाह
नि०-दुमा य पायवा रुक्खा, अगमा विडिमा तरू । कुहा महीरुहा वच्छा, रोवगारुंजगावि अ॥ ३५॥ द्रुमाश्च पादपा वृक्षा अगमा विटपिनः तरवः कुहा महीरुहा वच्छा रोपका रुञ्जकादयश्च । तत्र द्रुमान्वर्थसंज्ञा पूर्ववत्, पद्भ्यां पिबन्तीति पादपा इत्येवमन्येषामपि यथासम्भवमन्वर्थसंज्ञा वक्तव्या, रूढिदेशीशब्दा वा एत इति गाथार्थः । इदानीं पुष्पैकार्थिकप्रतिपादनायाह
नि०-पुप्फाणि अकुसुमाणि अफुल्लाणि तहेव होंति पसवाणि । सुमणाणि असुहुमाणि अपुष्फाणं होंति एगट्ठा ॥३६॥ पुष्पाणि कसमानि चैव फलानि प्रसवानि च सुमनांसि चैवसूक्ष्माणि सूक्ष्मकायिकानि चेति ।। साम्प्रतमेकवाक्यतया द्रमपुष्पिकाध्ययनशब्दार्थ उच्यते- द्रुमस्य पुष्पं द्रुमपुष्पम्, अवयवलक्षण: षष्ठीसमासः, द्रुमपुष्पशब्दस्य प्रागिवात्कः (पा०५-३-७) इति वर्त्तमाने अज्ञाते (७३) कुत्सिते (७४) (के) संज्ञायां कनि (७५) ति कनि प्रत्यये नकारलोपे च कृते द्रुमपुष्पक इति, प्रातिपदिकस्य स्त्रीत्वविवक्षायां अजाद्यतष्टाप् (४-१-४) इति टाप्प्रत्ययेऽनुबन्धलोपे च कृते प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः (पा०७-३-४४) इतीत्वे कृते अकः सवर्णे दीर्घः (पा०६-१-१०१) इति दीर्घत्वे परगमने च द्रुमपुष्पिकेति भवति, द्रुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति, द्रुमपुष्पिका चासौ अध्ययनं चेति समानाधिकरणस्तत्पुरुषः, द्रुमपुष्पिकाध्ययनमिति ॥ अस्य चैकार्थिकानि प्रतिपादयन्नाह
नि०- दुमपुप्फिआ य आहारएसणा गोअरे तया उंछो । मेस जलूगा सप्पे वणऽक्खइसुगोलपुत्तुदए ।। ३७ ।। तत्र द्रुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति, वक्ष्यति च-'जहा दुमस्स पुप्फेसु' इत्यादि, तथा आहारस्यैषणा आहारैषणा,
॥ २८॥
For Private and Personal Use Only