________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ३८४ ।।
www.kobatirth.org
अतो विनयः कर्तव्यः, किंविशिष्ट इत्याह- येन विनयेन कीर्तिं सर्वत्र शुभप्रवादरूपां तथा श्रुतं अङ्गप्रविष्टादि श्लाघ्यं प्रशंसास्पदभूतं निःशेषं संपूर्ण अधिगच्छति प्राप्नोतीति ॥ २ ॥
जे अ चंडे मिए श्रद्धे, दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा, कट्ठे सोअगयं जहा ।। सूत्रम् ३ ।। विणयंपि जो उवाएणं, चोइओ कुप्पई नरो। दिव्वं सो सिरिमिजंतिं, दंडेण पडिसेहए ।। सूत्रम् ४ ।।
अविनयवतो दोषमाह- 'जे अ'त्ति सूत्रम्, यः चण्डो रोषणो मृगः अज्ञः हितमप्युक्तो रुष्यति तथा स्तब्धो जात्यादिमदोन्मत्तः दुर्वाग् अप्रियवक्ता निकृतिमान् मायोपेतः शठः संयमयोगेष्वनादृतः, एभ्यो दोषेभ्यो विनयं न करोति यः उद्यतेऽसौ पापः संसारस्रोतसा 'अविनीतात्मा' सकलकल्याणैकनिबन्धनविनयविरहितः । किमिवेत्याह- काष्ठं 'स्रोतोगतं' नद्यादिवहनीपतितं यथा तद्वदिति सूत्रार्थः ।। ३ । किं च - 'विणयंपी'ति सूत्रम्, विनयं उक्तलक्षणं यः उपायेनापि एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः चोदित उक्तः कुप्यति रुष्यति नरः । अत्र निदर्शनमाह- दिव्यां अमानुषीं असौ नरः श्रियं लक्ष्मीं आगच्छन्तीं आत्मनो भवन्तीं दण्डेन काष्ठमयेन प्रतिषेधयति निवारयति । एतदुक्तं भवति विनयः संपदो निमित्तम्, तत्र स्खलितं यदि कश्चिच्चोदयति स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कुरूपागत श्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्गकारी च तद्युक्तः कृष्ण इति सूत्रार्थः ॥ ४ ॥
तहेव अविणीअप्पा, उववज्झा हया गया। दीसंति दुहमेहंता, आभिओगमुवट्ठिआ ।। सूत्रम् ५ ।। तव सुविणीअप्पा उववज्झा हया गया। दीसंति सुहमेहंता, इहिं पत्ता महायसा ।। सूत्रम् ६ ।। अविनयदोषोपदर्शनार्थमेवाह- 'तहेव' त्ति सूत्रम्, तथैवे ति तथैवैते अविनीतात्मानो विनयरहिता अनात्मज्ञाः, उपवाह्यानां
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नवममध्ययनं विनयसमाधिः, द्वितीयोदेशकः
सूत्रम्
३-६ अविनयिनो | दोषाः ।
।। ३८४ ।।