SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ३७१ ।। www.kobatirth.org अनशनादिरूपं साधु लोकप्रतीतं संयमयोगं च पृथिव्यादिविषयं संयमव्यापारं च स्वाध्याययोगं च वाचनादिव्यापारं सदा सर्वकालं अधिष्ठाता तपः प्रभृतीनां कर्तेत्यर्थः, इह च तपोऽभिधानात्तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्यापनार्थं भेदेनाभिधानमिति । स एवंभूतः शूर इव विक्रान्तभट इव सेनया चतुरङ्गरूपया इन्द्रियकषायादिरूपया निरुद्धः सन् समाप्तायुधः संपूर्णतपः प्रभृतिखड्गाद्यायुधः अलं अत्यर्थमात्मनो भवति संरक्षणाय अलं च परेषां निराकरणायेति सूत्रार्थः ।। ६२ ।। एतदेव स्पष्टयन्नाह'सज्झाय'त्ति सूत्रम्, स्वाध्याय एव सद्ध्यानं स्वाध्यायसङ्ख्यानं तत्र रतस्य सक्तस्य त्रातुः स्वपरोभयत्राणशीलस्य अपापभावस्य लब्ध्याद्यपेक्षारहिततया शुद्धचित्तस्य तपसि अनशनादौ यथाशक्ति रतस्य विशुद्धयते अपैति यद् अस्य साधोः मलं कर्ममलं पुराकृतं जन्मान्तरोपात्तम्, दृष्टान्तमाह- समीरितं प्रेरितं रूप्यमलमिव ज्योतिषा अग्निनेति सूत्रार्थः ।। ६३ ।। ततः - 'से तारिसे 'त्ति सूत्रम्, स तादृशः अनन्तरोदितगुणयुक्तः साधुः 'दुःखसहः' परीषहजेता जितेन्द्रियः पराजित श्रोत्रेन्द्रियादिः श्रुतेन युक्तो विद्यावानित्यर्थः अममः सर्वत्र ममत्वरहितः अकिञ्चनो द्रव्यभावकिञ्चनरहितः विराजते शोभते, कर्मघने ज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह- कृत्स्नाभ्रपुटापगम इव चन्द्रमा इति यथा कृत्स्ने कृष्णे वा अभ्रपुटे अपगते सति चन्द्रो विराजते शरदि तद्वदसावपेतकर्मघनः समासादितकेवलालोको विराजत इति सूत्रार्थः ।। ६४ ।। ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव । व्याख्यातमाचारप्रणिध्यध्ययनम् ॥ ८ ॥ || सूरिपुरन्दर श्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्तौ अष्टममध्ययनं आचारप्रणिध्याख्यं समाप्तमिति ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अष्टममध्ययनं आचार प्रणिधिः, सूत्रम् ६१-६४ उपदेशो55चारप्रणिधि फलं च । ।। ३७१ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy