SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ३६७ ।। www.kobatirth.org सूत्रार्थ: ।। ४८ ।। भाषणोपायमाह - 'दिट्ठ'ति सूत्रम्, दृष्टां दृष्टार्थविषयां मितां स्वरूपप्रयोजनाभ्यां असंदिग्धां निःशङ्कितां प्रतिपूर्णां स्वरादिभिः व्यक्तां अलल्लां जितां परिचितां अजल्पनशीलां नोच्चैर्लग्नविलग्नां अनुद्विनां नोद्वेगकारिणीमेवंभूतां भाषां निसृजेद् ब्रूयाद् आत्मवान् सचेतन इति सूत्रार्थ: ।। ४९ ।। प्रस्तुतोपदेशाधिकार एवेदमाह- आयार ति सूत्रम्, आचारप्रज्ञप्तिधर मित्याचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतम् । तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारकालकारकादिवेदिनं वाग्विस्खलितं ज्ञात्वा विविधं अनेकैः प्रकारैर्लिङ्गभेदादिभिः स्खलितं विज्ञाय न तं आचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारादिधरस्य वाचि कौशलमित्येवम्, इह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यते- नाधीतदृष्टिवादम्, तस्य ज्ञानाप्रमादातिशयतः स्खलनाऽसंभवाद्, यद्येवंभूतस्यापि स्खलितं संभवति न चैनमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां संभवति, नासौ हसितव्य इति सूत्रार्थः ॥ ५० ॥ नक्खत्तं सुमिण जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ।। सूत्रम् ५१ ।। अन्नङ्कं पगडं लयणं, भइज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जि अं ।। सूत्रम् ५२ ।। विवित्ता अभवे सिज्जा, नारीणं न लवे कहं। गिहिसंथवं न कुजा, कुजा साहूहिं संथवं ।। सूत्रम् ५३ ।। जहा कुक्कुडपो अस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ।। सूत्रम् ५४ ।। चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं । भक्खरंपिव दट्टूणं, दिट्ठि पडिसमाहरे ।। सूत्रम् ५५ ।। हत्थपायपलिच्छिन्नं, कण्णनासविगप्पिअं । अवि वाससयं नारिं, बंभयारी विवज्रए । सूत्रम् ५६ ।। विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा । सूत्रम् ५७ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अष्टममध्ययनं आचार प्रणिधिः, सूत्रम् ५१-६० | निमित्तादि| प्रतिषेधः । ।। ३६७ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy