SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदश वैकालिकं श्रीहारि० वृत्तियुतम् ।। ३१२ ।। www.kobatirth.org संरक्षणपरिग्रह इति संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः, किं चानेन ?, ते हि भगवन्तः अप्यात्मनोऽपि देह इत्यात्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न कुर्वन्ति ममत्वं आत्मीयाभिधानम्, वस्तुतत्त्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः ।। २१ ।। अहो निच्चं तवो कम्मं, सव्वबुद्धेहिं वण्णिअं । जाव लज्जासमा वित्ती, एगभत्तं च भोअणं ।। सूत्रम् २२ ।। संति सुहमा पाणा, तसा अदुव थावरा जाई राओ अपासंतो, कहमेसणिअं चरे ? ।। सूत्रम् २३ ।। उदउल्लं बी असंसतं, पाणा निवडिया महिं । दिआ ताइं विवज्रिना, राओ तत्थ कहं चरे ? । सूत्रम् २४ ।। Acharya Shri Kailassagarsuri Gyanmandir एअं च दोसं दणं, नायपुत्त्रेण भासिअं । सव्वाहारं न भुंजंति, निग्गंथा राइभोअणं ।। सूत्रम् २५ ।। उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याह- 'अहो' त्ति सूत्रम्, अहो नित्यं तपः कर्मे ति अहो विस्मये नित्यं नामापायाभावेन तदन्यगुणवृद्धिसंभवादप्रतिपात्येव तपः कर्म- तपोऽनुष्ठानं सर्वबुद्धैः सर्वतीर्थकरैः वर्णितं देशितम्, किंविशिष्टमित्याहयावल्लज्जासमा वृत्तिः लज्जा- संयमस्तेन समा सदृशी तुल्या संयमाविरोधिनीत्यर्थः वर्तनं वृत्ति:- देहपालना एकभक्तं च भोजनं एकं भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एक- एकसंख्यानुगतम्, भावत एकं- कर्मबन्धाभावादद्वितीयम्, तद्दिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः ।। २२ ।। रात्रिभोजने प्राणातिपातसंभवेन कर्मबन्धसद्वितीयतां दर्शयति- 'संतिमेत्ति सूत्रम्, सन्त्येते प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः प्राणिनो जीवाः त्रसा- द्वीन्द्रियादयः अथवा स्थावराः - पृथिव्यादयः यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथं एषणीयं सत्त्वानुपरोधेन चरिष्यति भोक्ष्यते च ?, असंभव © यद्यप्यवचूर्णिदीपिकयोर्नास्तीदं तथापि प्रतिग्रहप्रतिलेखनादोषसंपातिमसत्त्वोपरोधसंग्रहार्थं स्याच्चेन्नासंभव इति मन्ये, सर्वादर्शेषु दर्शनात् । For Private and Personal Use Only षष्ठमध्ययनं महाचारकथा, सूत्रम् २२-२५ रात्रिभोजनत्याग विधिः । ।। ३१२ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy