________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम् ।। २९६ ।।
www.kobatirth.org
भावत्वात् श्रमणांश्चापि तादृशान्नाराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं गर्हन्ते कुत्सन्ति, किमिति ? - येन जानन्ति तादृशं दुष्टशीलमिति सूत्रार्थः ।। ४० ।। ' एवं तु'त्ति सूत्रम्, एवं तु उक्तेन प्रकारेण अगुणप्रेक्षी अगुणान् प्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा गुणानां च अप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषेण विवर्जकः त्यागी तादृशः क्लिष्टचित्तो मरणान्तेऽपि नाराधयति संवरं चारित्रमिति सूत्रार्थः ।। ४१ ।।
तवं कुव्वइ मेहावी, पणीअं वज्रए रसं । मज्जप्पमायविरओ, तवस्सी अइउक्कसो ।। सूत्रम् ४२ ।। तस्स पस्सह कल्लाणं, अणेगसाहुपूइअं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ।। सूत्रम् ४३ ।। एवं तु सगुणप्पेही, अगुणाणं च विवज्रए। तारिसो मरणंतेऽवि, आराहेइ संवरं ।। सूत्रम् ४४ ।। आयरिए आराहेइ, समणे आवि तारिसे । गिहत्थावि ण पूयंति, जेण जाणंति तारिसं ।। सूत्रम् ४५ ।।
यतश्चैवमत एतद्दोषपरिहारेण तवं ति सूत्रम्, तपः करोति मेधावी मर्यादावर्ती प्रणीतं स्निग्धं वर्जयति रसं घृतादिकम्, न केवलमेतत्करोति, अपितु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, तपस्वी साधुः अत्युत्कर्षः अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः ।। ४२ ।। ' तस्स 'त्ति सूत्रम्, तस्य इत्थंभूतस्य पश्यत कल्याणं गुणसंपद्रूपं संयमम्, किंविशिष्टमित्याह- अनेकसाधुपूजितम्, पूजितमिति सेवितमाचरितम्, विपुलं विस्तीर्णं विपुलमोक्षावहत्वात् अर्थसंयुक्तं तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयिष्येऽहं शृणुत मे ममेति सूत्रार्थः ।। ४३ ।। ' एवं तु' उक्तेन प्रकारेण 'स' साधुः गुणप्रेक्षी गुणान् अप्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा अगुणानां च प्रमादादीनां स्वगतानामनासेवनेन परगतानां चाननुमत्या विवर्जकः त्यागी तादृशः शुद्धवृत्तो मरणान्तेऽपि चरमकालेऽप्याराधयति संवरं चारित्रम्, सदैव कुशलबुद्ध्या तद्वीज
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चचममध्ययनं पिण्डेषणा, द्वितीयोदेशकः
सूत्रम्
४२-४५ तपस्विनो गुणाः ।
।। २९६ ।।