SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चचममध्ययन श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् सूत्रम् आत्मसंयमविराधना। साणं ति सूत्रम्, श्वानं लोकप्रतीतम्, सूतां गां अभिनवप्रसूतामित्यर्थः दृप्तं च दर्पितम्, किमित्याह- गावं हयं गजम्, गौः-। बलीवर्दो हयः- अश्वो गजो- हस्ती । तथा संडिम्भं बालक्रीडास्थानं कलह वाक्प्रतिबद्धं युद्धं खड्गादिभिः, एतत् दूरतो दूरेण । पिण्डैषणा, प्रथमोद्देशकः परिवर्जयेत्, आत्मसंयमविराधनासंभवात्, श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डन-2 प्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः ।। १२ ।। अत्रैव विधिमाह-'अणुण्णए' त्ति १२-१८ सूत्रम्, अनुन्नतो द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्याद्यभिमानवान्, नावनतो द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकायः भावानवनत: अलब्ध्यादिनाऽदीन: अप्रहृष्टः अहसन् अनाकुलः क्रोधादिरहितः इन्द्रियाणि स्पर्शनादीनि । यथाभागं यथाविषयं दमयित्वा इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनिः साधुः चरेद् गच्छेत्, विपर्यये प्रभूतदोषप्रसङ्गात्, तथाहि- द्रव्योन्नतो लोकहास्यः भावोन्नत ईर्यां न रक्षति द्रव्यावनत: बक इति संभाव्यते भावावनतः क्षुद्रसत्त्व इति, प्रहृष्टो। योषिद्दर्शनाद्रक्त इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रव्रज्यानह इति सूत्रार्थः ॥१३॥ किंच-'दवदवस्स' त्ति सूत्रम्, द्रुतं । द्रुतं त्वरितमित्यर्थः,नगच्छेत भाषमाणोवानगोचरेगच्छेत.तथा हसन्नाभिगच्छेत. कुलमुच्चावचं सदा, उच्च-द्रव्यभावभेदाद्दिधाद्रव्योचं धवलगृहवासि भावोच्चं जात्यादियुक्तम्, एवमवचमपि द्रव्यतः कुटीरकवासि भावतो जात्यादिहीनमिति । दोषा। उभयविराधनालोकोपघातादय इति सूत्रार्थः ।।१४।। अत्रैव विधिमाह-'आलोअंथिग्गलं' ति सूत्रम्, अवलोकं निर्मूहकादिरूपं थिग्गलं चितं द्वारादि, सन्धिः- चितं क्षत्रम्, उदकभवनानि पानीयगृहाणि चरन् भिक्षार्थ न विनिध्यायेत् विशेषेण पश्येत्, शङ्कास्थानमेतदवलोकादि अतो विवर्जयेत, तथा च नष्टादौ तत्राशङोपजायत इति सूत्रार्थः ।। १५॥ किंच-'रण्णो'त्ति सूत्रम्, राज्ञः- चक्रवर्त्यादेः गृहपतीनां श्रेष्ठिप्रभृतीनां रहसाठाणमिति योगः, आरक्षकाणां च दण्डनायकादीनां 'रहःस्थानं'। BRUARIURA0008066 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy