________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsun Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। २५९॥
३-८
आत्मसंयम
विराधना।
संप्राप्ते शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते भिक्षाकाले भिक्षासमये, अनेनासंप्राप्ते भक्तपानैषणाप्रतिषेधमाह, पञ्चममध्ययन
पिण्डेषणा, अलाभाज्ञाखण्डनाभ्यां दृष्टादृष्टविरोधादिति, असंभ्रान्तः अनाकुलो यथावदुपयोगादि कृत्वा, नान्यथेत्यर्थः, अमूर्छितः
प्रथमोद्देशक: पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, न तु पिण्डादावेवासक्त इति, अनेन वक्ष्यमाणलक्षणेन क्रमयोगेन ।
सूत्रम् परिपाटीव्यापारेण भक्तपानं यतियोग्यमोदनारनालादि गवेषयेद् अन्वेषयेदिति सूत्रार्थः ॥ १॥ यत्र यथा गवेषयेत्तदाह-'से इत्यादि सूत्रम्, व्याख्या- से इत्यसंभ्रान्तोऽमूर्च्छितः ग्रामे वा नगरे वा, उपलक्षणत्वादस्य कर्बटादौ वा, गोचराग्रगत इति । गोरिव चरणं गोचर:- उत्तमाधममध्यमकुलेष्वरक्तद्विष्टस्य भिक्षाटनम्, अग्र:- प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्रत:तद्वर्ती मुनि:- भावसाधुः चरेत्- गच्छेत् मन्दं शनैः शनैर्न द्रुतमित्यर्थः, अनुद्विग्नः प्रशान्तः परीषहादिभ्योऽबिभ्यत् अव्याक्षिप्तेन चेतसा वत्सवणिग्जायादृष्टान्तात् शब्दादिष्वगतेन 'चेतसा' अन्तःकरणेन एषणोपयुक्तेनेति सूत्रार्थः ।।२।।
पुरओ जुगमायाए, पेहमाणो महिं चरे । वजंतो बीअहरियाई, पाणे अ दगमट्टि।। सूत्रम् ३ ।। ओवायं विसमं खाणुं, विजलं परिवजए। संकमेण न गच्छिता, विजमाणे परक्कमे ।। सूत्रम् ४ ।। पवडते व से तत्थ, पक्खलंते व संजए। हिंसेज पाणभूयाई, तसे अदुव थावरे ।। सूत्रम् ५ ।। तम्हा तेण न गच्छिजा, संजए सुसमाहिए। सइ अन्त्रेण मग्गेण, जयमेव परक्कमे ।। सूत्रम् ६॥ इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहि, संजओतं नइक्कमे ।। सूत्रम् ७ ॥
|| २५९॥ नचरेज वासे वासंते, महियाए वा पतिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा ।। सूत्रम् ८ ।। यथा चरेत्तथैवाह- पुरतो इति सूत्रम्, व्याख्या- पुरतः अग्रतो युगमात्रया शरीरप्रमाणया शकटोर्द्धिसंस्थितया, दृष्ट्येति ।
For Private and Personal Use Only