________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsur Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२५२॥
२६-२८
जया इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा सर्वत्रगं ज्ञानं अशेषज्ञेयविषयं दर्शनं च अशेषदृश्यविषयं अधिगच्छति । चतुर्थमध्ययन आवरणाभावादाधिक्येन प्राप्नोतीत्यर्थः ।।२१।। जया इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा लोकं चतुर्दश
षड्जीवरज्वात्मकं अलोकं च अनन्तं जिनो जानाति केवली, लोकालोकौ च सर्व नान्यतरमेवेत्यर्थः ।। २२।। जया इत्यादि, यदा
निकायम,
सूत्रगाथा लोकमलोकं च जिनो जानाति केवली तदोचितसमयेन योगान्निरुद्ध्य मनोयोगादीन् शैलेशी प्रतिपद्यते, भवोपग्राहि
धर्मस्यफल कशिक्षयाय ॥ २३ ॥ जया इत्यादि, यदा योगान्निरुद्भ्य शैलेशी प्रतिपद्यते तदा कर्म क्षपयित्वा भवोपग्राह्यपि सिद्धिं गच्छति
सुलभंदुर्लभ लोकान्तक्षेत्ररूपां नीरजाः सकलकर्मरजोविनिर्मुक्तः ।। २४ ।। जया इत्यादि, यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः । तदा लोकमस्तकस्थः त्रैलोक्योपरिवर्ती सिद्धो भवति शाश्वतः कर्मबीजाभावादनुत्पत्तिधर्मेति भावः। उक्तो धर्मफलाख्यः षष्ठोऽधिकारः ॥ २५॥
सुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स ॥२६॥ तवोगुणपहाणस्स उज्जुमइ खंतिसंजमरयस्स । परीसहे जिणंतस्स सुलहा सुगई तारिसगस्स ॥२७॥ पच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाई। जेसि पिओ तवो संजमो अखंती अबंभचेरं च ॥१॥ (प्र०) इच्चेअंछज्जीवणिअंसम्म हिट्ठी सया जए। दुल्लह लहित्तु सामण्णं, कम्मुणान विराहिज्जासि ॥२८॥ तिबेमि।।चउत्थं छजीवणिआणामायणं समत्तं ।। ४॥
।। २५२॥ 0 नैषा गाथा विवृता पूज्यैः हरिभद्राचार्यैश्चूर्णिकृद्भिश्च ।
For Private and Personal Use Only