SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२३५।। चतुर्थमध्ययन षडजीवनिकायम. पशमहावत स्वरूपम अहावरे तच्चे भंते! महव्वए अदिनादाणाओवेरमणं, सव्वं भंते! अदिन्नादाणं पञ्चक्खामि, से गामे वा नगरे वा रणे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिजा नेवऽन्नेहिं अदिन्नं गिण्हाविजा अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाएकाएणन करेमिन कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । तच्चे भंते! महव्वए उवट्टिओमि सव्वाओ अदिनादाणाओ वेरमणं ३ ।। सूत्रम् ५॥ उक्तं द्वितीयं महाव्रतम्, अधुना तृतीयमाह- अहावरे इत्यादि, अथापरस्मिंस्तृतीये भदन्त! महाव्रते अदत्तादानाद्विरमणम, सर्वं । भदन्त! अदत्तादानं प्रत्याख्यामीति पूर्ववत् तद्यथा-ग्रामे वा नगरे वा अरण्ये वा इति, अनेन क्षेत्रपरिग्रहः, तत्र ग्रसति बृद्ध्यादीन् गुणानिति ग्रामः तस्मिन्, नास्मिन् करो विद्यत इति नकरम्, अरण्य-काननादि । तथा अल्पं वा बहु वा अणु वा स्थूल वा चित्तवद्वा अचित्तवद्वा इति, अनेन तु द्रव्यपरिग्रहः, तत्राल्पं- मूल्यत एरण्डकाष्ठादि बहु- वज्रादि अणु-प्रमाणतो वज्रादि स्थूल- एरण्डकाष्ठादि, एतच चित्तवद्वा अचित्तवद्वेति-चेतनाचेतनमित्यर्थः । णेव सयमदिण्णं गेण्हिज त्ति नैव स्वयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि अदत्तं गृह्णतोऽप्यन्यान् न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयंअदत्तादानं चतुर्विधं- द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतोऽल्पादौ क्षेत्रतो ग्रामादौ कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् । द्रव्यादिचतुर्भङ्गी पुनरियं-"दव्वओ णामेगे अदिण्णादाणे णो भावओ भावओ णामेगे णो दव्वओ एगे दव्वओऽवि भावओऽवि एगे णो दव्वओणो भावओ। तत्थ अरत्तदुट्ठस्स साहणो कहिंचि अणणुण्णवेऊण तणाइ गेण्हओ 0 द्रव्यतो नामैकमदत्तादानं नो भावतः भावतो नामैक नो द्रव्यतः एक द्रव्यतोऽपि भावतोऽपि एक नो द्रव्यतो नो भावतः, तत्रारक्तद्विष्टस्य साधोः कुत्रचित् 8 अननुज्ञाप्य तृणादि गृहतो ||२३५॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy