SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mal Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १९१ ।। www.kobatirth.org प्रक्षयनिमित्तं प्रक्रामन्ति प्रवर्तन्ते, किंभूताः ? - महर्षयः साधव इति सूत्रार्थः ।। १३ ।। इदानीमेतेषां फलमाह- दुक्कराई ति सूत्रम्, अस्य व्याख्या एवं दुष्कराणि कृत्वौद्देशिकादित्यागादीनि तथा दुःसहानि सहित्वाऽऽतापनादीनि केचन तत्र देवलोकेषु सौधर्मादिषु, गच्छन्तीति वाक्यशेषः । तथा केचन सिद्ध्यन्ति तेनैव भवेन सिद्धिं प्राप्नुवन्ति । वर्तमाननिर्देश: सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः। नीरजस्का इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति सूत्रार्थः ।। १४ ।। येऽपि चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्च्युता आर्यदेशेषु सुकुले जन्मावाप्य शीघ्रं सिद्ध्यन्त्येतदाह- 'खवित्त'त्ति सूत्रम्, अस्य व्याख्या- ते देवलोकच्युताः क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्याह- संयमेन उक्तलक्षणेन तपसा च, एवं प्रवाहेण सिद्धिमार्गं सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातार आत्मादीनां परिनिर्वान्ति सर्वथा सिद्धिं प्राप्नुवन्ति, अन्ये तु पठन्ति 'परिनिव्वुड'त्ति, तत्रापि प्राकृतशैल्या छान्दसत्वाच्चायमेव पाठो ज्यायान् इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १५ ।। उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववद्रष्टव्याः । इति व्याख्यातं क्षुल्लकाचारकथाध्ययनम् ।। ३ । || सूरिपुरन्दर श्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्तौ तृतीयमध्ययनं क्षुल्लिकाचारकथाख्यं समाप्तमिति ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir तृतीयमध्ययनं क्षुल्लिकाचारकथा, सूत्रम् ११-१५ साधुस्वरूपम्। ।। १९१ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy