SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १८७ ।। www.kobatirth.org वर्णयन्ति यत एव महर्षयोऽत एव निर्ग्रन्थाः, एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थः ।। साम्प्रतं यदनाचरितं तदाह- 'उद्देसिय ति उद्देशनं साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः तत्र भवमौद्देशिकम्, क्रयणं क्रीतम्, भावे निष्ठाप्रत्ययः, साध्वादिनिमित्तमिति गम्यते, तेन कृतं - निर्वर्तितं क्रीतकृतं २, 'नियाग' मित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामन्त्रितस्य ३, 'अभिहाणि य'त्ति स्वग्रामादेः साधुनिमित्तमभिमुखमानीतमभ्याहृतम्, बहुवचनं स्वग्रामपरग्रामनिशीथादिभेदख्यापनार्थं ४, तथा रात्रिभक्तं रात्रिभोजनं दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गलक्षणं ५, स्नानं च देशसर्वभेदभिन्नम्, देशस्नानमधिष्ठानशौचातिरेकेणाक्षिपक्ष्मप्रक्षालनमपि, सर्वस्नानं तु प्रतीतं ६, तथा गन्धमाल्यव्यजनं च गन्धग्रहणात्कोष्ठपुटादिपरिग्रहः माल्यग्रहणाच्च ग्रथितवेष्टितादेर्माल्यस्य वीजनं तालवृन्तादिना धर्म एव, ७-८-९ इदमनाचरितम्, दोषाश्चौद्देशिकादिष्वारम्भप्रवर्तनादयः स्वधियाऽवगन्तव्या इति सूत्रार्थः ।। इदं चानाचरितमित्याह - संनिहि त्ति सूत्रम्, अस्य व्याख्या- संनिधीयते ऽनयाऽऽत्मा दुर्गताविति संनिधि:- घृतगुडादीनां संचयक्रिया १०, गृहिमात्रं गृहस्थभाजनं च ११, तथा राजपिण्डो नृपाहारः, कः किमिच्छतीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन १२, तथा संबाधनं अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं १३, दन्तप्रधावनं चाङ्गुल्यादिना क्षालनं १४, तथा संप्रश्नः सावद्यो गृहस्थविषयः, राढार्थं कीदृशो वाऽहमित्यादिरूपः १५, देहप्रलोकनं च आदर्शादावनाचरितं १६, दोषाश्च संनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वधियैव वाच्या इति सूत्रार्थः । किंच'अट्ठावए य' सूत्रम्, अस्य व्याख्या- अष्टापदं चेति, 'अष्टापदं' द्यूतम्, अर्थपदं वा गृहस्थमधिकृत्य नीत्यादिविषयमनाचरितं १७, तथा नालिका चे ति द्यूतविशेषलक्षणा, यत्र मा भूत्कलयाऽन्यथा पाशकपातनमिति नलिकया पात्यन्त इति, इयं चानाचरिता १८, अष्टापदेन सामान्यतो द्यूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थं भेदेन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir तृतीयमध्ययनं क्षुल्लिका चारकथा, सूत्रम् १-१० औद्देशिकादित्रिपञ्चाशदनाचीर्णाः । ।। १८७ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy