SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १६५ ।। www.kobatirth.org परिच्चइऊण दिव्वं देवरूवं दरिसेड़, भणइ य- भो सेणिय! सुलद्धं ते जम्मजीवियस्स फलं जेण ते पवयणस्सुवरिं एरिसी भत्ती भवइत्ति उववूहेऊण गओ एवं उववूहियव्वा साहम्मिया । स्थिरीकरणे उदाहरणं जहा उज्रेणीए अज्जासाढो कालं करेंते संजए अप्पाहेइ मम दरिसावं दिज्जह, जहा उत्तरज्झयणेसु एतं अक्खाणयं सव्वं तहेव, तम्हा जहा सो अज्जासाढो थिरो कओ एवं जे भविया ते थिरीकरेयव्वा । तथा वात्सल्यप्रभावना इति वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यं समानधार्मिकप्रीत्युपकारकरणं प्रभावना- धर्मकथादिभिस्तीर्थख्यापनेति, तत्र वात्सल्ये उदाहरणं अजवइरा, जहा तेहिं दुब्भिक्खे संघो नित्थारिओ एयं सव्वं जहा आवस्सए तहा नेयं, पभावणाए उदाहरणं ते चेव अज्रवइरा जहा तेहिं अग्गिसिहाओ सुहुमकाइआई आणेऊण सासणस्स उब्भावणा कया एयमक्खाणयं जहा आवस्सए तहा कहेयव्वं, एवं साहुणावि सव्वपयत्तेण सासणं उब्भावेयव्वं । अष्टावित्यष्टप्रकारो दर्शनाचारः, प्रकाराश्चोक्ता एव निःशङ्कितादयः, गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथंचिद्भेदख्यापनार्थः, एकान्ताभेदे तन्निवृत्तौ गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति गाथार्थः । स्वपरोपकारिणी प्रवचनप्रभावना तीर्थकरनामकर्मनिबन्धनं चेति भेदेन प्रवचनप्रभावकानाह- अतिशयी अवध्यादिज्ञानयुक्तः ऋद्धिग्रहणादामर्षीषध्यादिऋद्धिप्राप्तः ऋद्धि (मत्) प्रव्रजितो वा आचार्यवादिधर्मकथिक्षपकनैमित्तिकाः प्रकटार्थाः विद्याग्रहणाद् विद्यासिद्धः आर्य4 परित्यज्य दिव्यं देवरूपं दर्शयति, भणति च भोः श्रेणिक! सुलब्धं त्वया जन्मजीवितयोः फलं येन ते प्रवचनस्योपरि ईदृशी भक्तिरस्तीति उपबृं गतः, एवमुपबृंह्याः साधर्मिकाः ॥ स्थिरीकरणे उदाहरणं यथोज्जयिन्यामार्याषाढः कालं कुर्वतः संयतान् संदिशति मम दर्शनं दद्यात् यथोत्तराध्ययनेषु एतदाख्यानकं सर्व तथैव तस्मात् स यथा आर्याषाढः स्थिरीकृत एवं ये भव्यास्ते स्थिरीकर्त्तव्याः । © आर्यवज्रा यथा तैर्दुर्भिक्षे सङ्घो निस्तारित एतत् सर्वं यथाऽऽवश्यके तथा ज्ञेयम्, प्रभावनायां त एवोदाहरणमार्यवज्रा यथा तैरग्निशिखात् (पुष्पाणि) सूक्ष्मकायिकाण्यानीय शासनस्योद्भावना कृता एतदाख्यानकं यथाऽऽवश्यके तथा कथयितव्यम्, एवं साधुनाऽपि सर्वप्रयत्नेन शासनमुद्भावयितव्यम् । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir तृतीयमध्ययनं क्षुल्लिका चारकथा, निर्युक्तिः | १८१-१८७ पञ्चाचाराः । ।। १६५ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy