SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१३०॥ तदर्शनं चेदं- क्रियैव प्रधानम्, ऐहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये। प्रथममध्ययन गाथामाह द्रुमपुष्पिका, सूत्रम् ४-५ नि०- णायंमि गिण्हियव्वे अगिहियव्वंमिचेव अत्थंमि । जइयव्वमेव इइ जो उवएसो सो नओ नामं ॥ १४९(२)?॥ उपनयशुद्धिः अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, नियुक्तिः न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तं- क्रियैव फलदा पुंसां, न १४९(२) ज्ञाननयः। ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत्॥१॥ तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्त्तव्या, तथा च मौनीन्द्रप्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तं-चेइयकुलगणसंघे आयरियाणं च पवयणसुए य । सव्वेसुवि तेण कयं तवसंजममुज्जमतेणं ॥ १ ॥ इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्, तथा चागमः-सुबहुपि सुयमहीयं किं काही चरणविप्पमुक्कस्स?। अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥ दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः । एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रक्रियेत्यनान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते, यस्मा (याव) दखिलकर्मेन्धनानलभूता हूस्वपञ्चाक्षरोच्चारणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् । इति जो उवएसो सो णओ णामं ति इति एवमुक्तेन न्यायेन य उपदेशः किं?-क्रियाप्राधान्यख्यापनपरः स नयो नाम-क्रियानय इत्यर्थः । अयं च ज्ञानवचनक्रियारूपेऽस्मिन्न 0 चैत्यकुलगणसङ्के आचार्येषु च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयनयोरुद्यच्छता ॥१॥ 0 सुबहुकमपि श्रुतमधीतं किं करिष्यति चरणविप्रमुक्तस्य?। अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोट्यपि ॥१॥ ॥१३०॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy