________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। १०३ ।।
www.kobatirth.org
भा०- अफासुयकयकारिय अणुमयउद्दिट्टभोइणो हंदि । तसथावरहिंसाए जणा अकुसला उ लिप्यंति ॥ ३ ॥ अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्चरकादयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति ? - त्रसन्तीति त्रसा:- द्वीन्द्रियादयः तिष्ठन्तीति स्थावराः पृथिव्यादयस्तेषां हिंसा- प्राणव्यपरोपणलक्षणा तया जनाः प्राणिनः अकुशलाः अनिपुणाः स्थूलमतयश्चरकादयो लिप्यन्ते सम्बध्यन्त इत्यर्थः, इह च हिंसाक्रियाजनितेन कर्मणा लिप्यन्त इति भावनीयम्, कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति, साधव एव भवन्तीति गाथार्थः ॥
भा०- एसा हेउविसुद्धी दिट्टंतो तस्स चेव य विसुद्धी। सुत्ते भणिया उ फुडा सुत्तफासे उ इयमन्ना ।। ४ ।।
एषा अनन्तरोक्ता हेतुविशुद्धिः प्राग्निरूपितशब्दार्था, अधुना दृष्टान्तः प्राग्निरूपितशब्दार्थः, तथा तस्यैव च दृष्टान्तस्य विशुद्धिः, किं ? - सूत्रे भणिता, उक्तैव स्फुटा स्पष्टा । तच्चेदं सूत्रं
जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं । ण य पुष्पं किलामेइ, सो अ पीणेइ अप्पयं ।। सूत्रम् २ ।।
अत्राह- अथ कस्माद्दशावयवनिरूपणायां प्रतिज्ञादीन् विहाय सूत्रकृता दृष्टान्त एवोक्त इति ?, उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये इति न्यायप्रदर्शनार्थम्, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र यथा येन प्रकारेण द्रुमस्य प्राग्निरूपितशब्दार्थस्य पुष्पेषु प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुमेये (उपमेये) गृहिद्रुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, भ्रमरः चतुरिन्द्रियविशेषः, किं ?- आपिबति मर्यादया पिबत्यापिबति, कं? - रस्यत इति रसस्तं- निर्यासं मकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तद्देशोदाहरणमधिकृत्य © उदाहरणभेदचतुष्के प्रथमभेदगतम्, ख्यापितं च प्राक् एतत् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं
द्रुमपुष्पिका,
सूत्रम् १ निर्युक्तिः ९५
भाष्यम् ३-४
सूत्रम् २ हेतोर्विशुद्धि|ष्टान्त
विशुद्धिश्व
भ्रमरोदा
हरणम् ।
॥ १०३ ॥