SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। यदि धनवती स्त्री तदा तस्य दोषे सति धनं दण्डो धनाभावे तु ताडनमित्यर्थः । मनुः,स्त्रीबालान्मत्तड्वानां दरिद्राणाञ्च रोगिणाम् । शिफाविदलरवाद्यैर्विदध्यान्नृपतिर्दमम् ॥ दरिद्रोऽत्र कर्मण्यक्षमो निर्द्धनः। दम दमनं नियमनमित्यर्थः। तच्च शिफादिताडनेनैव नार्थेनेत्यर्थः। शिफा लता, विदलं वल्कलमिति हलायुधः। एतच्च विशेषविहितदण्डेतरविषयम् । अत्रैव शङ्खलिखितौ,शिल्पिनः कारवः शूद्रास्तेषां व्यभिचारेषु शिल्पोपकरणानि रक्षेत, तुलामानप्रतिमानानि बणिकपथानां, क्षेत्रबौज-भक्त-गोशकटकर्षणद्रव्याणि कर्षकाणं, वाद्यभाण्डालङ्कारवासांसि रङ्गोपजीविनां, गृहशयनालङ्कारवासांसि वेश्यानां, शस्त्राणि चायुधजीविनां, सर्वेषां कारुद्रव्याण्यनाहा-णि राज्ञा धार्मिकेण । अस्वा हि पुरुषाः पापबहुलाश्चाविधेयाश्च भवन्ति तेभ्यः पापांशभाग्राजा। तस्मान्नाधनान्नानुपकरणान् कुर्य्यात्। तन्मूला हि वृत्तिईत्तिमूला निवासस्तैर्निवसद्भिः स्फोतं राष्ट्रमिहोच्यते । शिल्पिनश्चित्रलेखादिकर्तारः। व्यभिचारेषु सर्वस्वापहारयोग्यापराधेष्वपि। तुलेत्यत्र समुत्थानानौति कल्पतरौ पठितम् । तत्र समुत्थानं बणिग्वृत्तिसाधनभूतं द्रव्यम् । भक्तं कृषिसिद्ध्यर्थमन्नम् । कर्षणद्रव्यं हलादि। वाद्यभाण्डं पटहादि। रङ्गोपजीविनां त्यत्तीनाम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy