SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डनिमित्तेषु दण्डभेदव्यवस्था । ४६ नारायणस्त्वाह, कामकृतेऽनुक्तरूपं प्रवासनमङ्कनादिसहितं एतच्चाल्पारम्भविषयमारम्भमहत्त्वे तु हननमेवेति । तदेवमकामकृते महापातके बहुश्रुतादेर्दण्डाभावः । तदितरस्य गुणवतो मध्यमसाहसं निर्गुणस्योत्तमसाहसं दण्डः सर्व्वेषां प्रायश्चित्ताचरणश्च तदनाचरणे देशान्निःसारणम् । कामकृते तु तस्मिन् बहुश्रुतादेः प्रायश्चित्ताचरणमनाचरणे निःसारणं तदितरस्याङ्कनं निःसारणच । क्षचियादेस्तु कामकृते तस्मिन् बधः । अन्यत्राङ्कनधनदण्ड- प्रवासनादौति व्यवस्था । अथ धनदण्डोऽप्यमौषामनुशासनमाचार्थ एव । समनन्तरमेव तस्य त्यागस्मरणात् । तथाहि मनुः– नाददीत नृपः साधुः महापातकिनो धनम् । आददानस्तु तल्लोभात्तेन पापेन लिप्यते ॥ धनं धनदण्डरूपमिति नारायणः । नाददीत पातकिसकाशादाकृष्टमपि न स्वीकुर्वीत । किं तर्हि कुर्य्यादित्याह — अप्सु प्रवेश्य तं दण्डं वरुणायोपकल्पयेत् । श्रुतत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्व्वस्य जगतो ब्राह्मणो वेदपारगः ॥ वृत्तमाचार इति नारायणः । मनूक्तं गुरुपूजादौति तत्त्वम् । राज्ञामिति - राज्ञामपि दण्डधरः शास्ता यतः । 7 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy