SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । मिति। तथा दण्ड्यतेऽनेनेति दण्डो देहस्तेन पारुष्यं विरुक्षीकरणं दण्डपारुष्यमिति । तदिदं रत्नाकरादिना पञ्चविधमुक्तम् । मिताक्षराकारस्त्वाह, हयोर्यः क्षमते तस्य दण्डाभावः पूज्यता च। तथा पूर्व कलहप्रवृत्तस्य दण्डो गुरुरुत्तरकलहे बहुवैरानुसन्धातुरेव दण्डभाक्त्वम् । तथा इयोरपराधविशेषापरिज्ञाने' दण्डः समः। तथा श्वपचादिभिराऱ्याणामपराधे कृते तैरेव तेषां दण्डनं तस्यासामर्थे राज्ञा । तथा-राजा तान् घातयेदेव नार्थं तेभ्यो गृह्णीयात् । इति पञ्चप्रकारा विधयः । युक्तञ्चैतदेषां वाग्दण्डपारुष्यसाधारण्यात्, मतान्तरे तु एतयोरुभयोरपि व्यर्थ स्यात् एतच्च स्पष्टमाचष्टे नारद एव। यतः समनन्तरमेव तद्विधिप्रतिपादकान् श्लोकानाह । अपारुष्ये सति सम्भवादिति-पूर्वमाक्षारयेद्य इति'योरापन्नयोस्तुल्य इति-पारुष्यदोषाच्च तयोरिति-श्वपाकपण्ड-चाण्डालेति-मर्यादातिकम इति-यमेव हौति-मलाह्येत इति । तानेतानष्टश्लोकानुपरि व्याख्यास्यामः । अतएव कामधेनौ कल्पतरौ च वाग्दण्डपारुष्ये यावछेदं प्रत्येकं लिखित्वा- अथ वाग्दण्डपारुष्ये नारद १ ख -ज्ञानेन। २ ग घ पुस्तकहये अपचारे। ३ ख पुस्तके पञ्चविध प्रकाराः। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy