SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। अथ दण्ड-भेदाः। तत्र वृहस्पतिः,- वाग् धिक् धनं बधश्चैव चतुर्दा कथितो दमः । पुरुषं विभवं दोषं ज्ञात्वा तं परिकल्पयेत् ॥ तत्र वाग्दण्डो न त्वयेदं सम्यक् कृतमित्यादि निन्दा । ताड़यनमिति वाङ्मावमिति नारायणः । धिग्दण्डो धिक् स्वां पापौयांसमकार्यकारिणमित्यादिभर्त्सनम्। धनं विविधं व्यवस्थितमव्यवस्थितञ्च । तत्र व्यवस्थितं नियतसंख्यं साहसरूपं, तत् विविधं प्रथमं मध्यममुत्तममिति । यचापराधानुबन्धादिना संख्याधिक्यं कल्प्यते तदव्यवस्थितं तत्सामान्यतो द्विविधं पणादिरूपं माषादिरूपञ्च सर्वमिदमनुपदं वक्ष्यते। बधस्त्रिविधः, पौड़नमङ्गछेदः प्रमापणच। तेषु पौड़नं चतुर्विधम् ; ताड़नमवरोधनं बन्धनं विडम्बनञ्च । तत्र ताड़नं कशाद्यभिघातः, अवरोधनं कारावासादिना कर्मनिरोधः, बन्धनं निगड़ादिभिरस्वातन्त्र्योत्पादनम्, विडम्बनमनेकप्रकारं यथा- मुण्डनं गईभारोहणं चौर्यादिचिह्नाचरणं डिण्डिमादिना तत्तदपराधख्यापनं पुरनगरभ्रामणमित्यादि। अङ्गछेदश्च छेद्याङ्गभेदाचतुर्दशविध इति दृहस्पतिः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy