SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ सम्योपदेशः । तत्र सभ्यानां कश्चिद्दोषोऽनियुक्त-सामाजिक-साधारणः कश्चिदसाधारण इति मिताक्षराकारः। तत्राद्यो यथा मनु-नारदौ,सभा वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । अब्रुवन् विब्रुवन् वापि नरो भवति किल्विषो ॥ अत्र च न प्रवेष्टव्यमिति सामान्याभिधाने विशेषजिज्ञासायां सभामित्युपतिष्ठते एवमपि 'पदसंस्कारस्याभियुक्तरिष्टत्वात् दिगुरेकवचनमिति ज्ञापकात् यथायुक्तमर्थं परीक्षितुमित्यादौ यथा वा शक्यं श्वमांसादिभिरपि तत् प्रतिहन्तुमिति महाभाष्यफक्किकायाम् । कुल्लूकभट्टस्तु सभामुद्दिश्येत्यध्याहारमाह । मेधातिथिना तु सभा वा न प्रवेष्टव्येति ऋज्वेव पठितम्। मिताक्षराप्येवमेव । मनु-नारद-हारोत-बौधायनाः, पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ सभासदः अधर्मप्रवृत्त्यनिवारकानिति कुन्नुकभट्टः । यत्र राजानुमत्या व्यवहारस्य दुईष्टत्वं तचैव तदोष इति मिताक्षराकारः। पादोऽधर्मस्येत्यादौ तत्तुल्यपापान्तरो १ क पदजन्यसंस्कार-। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy