SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवाद पदानि । ३२६ हौनान्नौचात् असम्भावितद्रव्यस्वामिभावात् । वेलाहोने क्रयाहवेलाहौने। तेन होनादसाधोर्दासाद्दा रहो हौनमूल्येन वेलामनाश्रित्य क्रयं कुर्वन् तस्करी भवतीत्यतिदेशात्तद्दण्डप्रापकः। अथ स्वामिनो दण्डमाह याज्ञवल्क्यः, हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् । अनिवेद्य टपे दण्ड्यः स तु षणवतिं पणान् ॥ इदं मम अनेनापहृतमिति राज्ञेऽनिवेदयितुरयं दण्डः। तस्करप्रच्छादनेन राजाज्ञाखण्डनादिति कृत्यसागर-स्मृतिसारौ। एवमेव कल्पतरु-रत्नाकरादिस्वरसः । अथ बृहस्पतिः,प्रमाणहोने वादे तु पुरुषापेक्षया टपः । सम-न्यूनाधिकत्वेन स्वयं कुर्या विनिश्चयम् ॥ वणिग्वौथोपरिगतं विज्ञातं राजपूरुषैः । अविज्ञाताश्रयात् क्रौतं विक्रेता यत्र वा मृतः ॥ स्वामौ दत्वाऽर्द्धमूल्यन्तु प्रगृलौत स्वकं धनम् । अई द्वयोरपहृतं तत्र स्याद्यवहारतः ॥ अविज्ञातक्रयो दोषस्तथा चापरिपालनम् । एतद्दयं समाख्यातं द्रव्यहानिकरं बुधैः ॥ वणिगिति। अविज्ञाताश्रयात् अनिश्चितवासस्थानात् । अयमर्थः-वस्तुतः परकीयमपि द्रव्यं वणिग्वौथोपरिगतं प्रकाशं यः क्रोणति विक्रेतुरविज्ञाताश्रयत्वात्तमानेतुं न शक्नोति स विभावितस्वामिभावान्नाष्टिकादईमूल्यं गृहीत्वा १ घ पुस्तके स्वयं । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy