SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवादपदानि । ३२७ कुल्लूकभट्टादयो वृत्तिकृतः। पाठभेदव्याख्याभेदव्यवस्थिता अप्येते अर्था ग्राह्या न्यायानुरोधित्वात् । __ यत्तु स्वामिसम्बन्धिना अन्येन धनस्य स्वामिगृहादपसारणमपसरः। स यस्य नास्ति किन्तु स्वयमेव तव्यापसारौ सोऽनपसर इति रत्नाकरकृतः। अनपसरोऽपलायित इति कृत्यसागर-स्मृतिसारयोरुक्तम् । तच्चिन्त्यम् । तेन यः स्वामिनः सम्बन्धी, यश्चाज्ञानाविक्रौणौते स षट्पणशतानि दण्ड्यः । यस्तु तस्यासम्बन्धी, यश्च ज्ञात्वा विक्रौणोते, तस्य चौरवद्दण्ड इत्यर्थः। असम्बधिनः स्वयं द्रव्यापसारणे चौरवद्दण्डः । परकृते तस्मिन् षट्शताधिकमिति रत्नाकरः। अथ स्वामित्वाभिमतस्य दण्डमाह कात्यायनः,यदि स्वं नैव कुरुते ज्ञाभिर्नाष्टिको धनम् । प्रसङ्गविनिवृत्त्यर्थं चौरवद्दण्डमर्हति ॥ ज्ञाभिरिति प्रमाणमात्रोपलक्षणम्। नाष्टिको नष्टधनस्वामी। याज्ञवल्क्यः, पञ्चबन्धो दमस्तत्र राज्ञे तेनाविभाविते । पञ्चबन्धो नष्टद्रव्यपञ्चमांशः । बृहस्पतिः, अभावयंस्ततः पश्चादाप्यः स्याद्दिगुणं दमम् । अत्र परद्रव्यं ज्ञात्वाऽपि लाभात् स्वमिति वदतो नष्टत्वाभिमतधनादिगुणदण्डः। भ्रमात्तथा वदतः पञ्चवन्धो दण्ड इति व्यवस्था। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy