SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवादपदानि । ३२५ वशिष्ठः,फलपुष्योपगान् पादपान्न हिंस्यात्, कर्षणार्थं वोपहन्यात् गार्हस्थ्याङ्गे च ।। कर्षणार्थ कृषिहेतुहलाद्यर्थम् । सम्भवासम्भवनिमित्तकविकल्पयरो वाशब्दः । गार्हस्थ्याङ्ग गृहकर्म दृष्टमदृष्टं वा। येन तगृहोपकरणं यज्ञोपकरणञ्च सिध्यति । ॥ इति प्रकीर्णके मुक्तकवर्गः ॥ अथ विवादपदानि। अब मनुः,तेषामाद्यमृणादानं निःक्षेपोऽस्वामिविक्रयः । सम्भूय च समुत्यानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चादानं सम्विदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ सौमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयच्च साहसञ्चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो विवादश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ अब पारुष्यादीनां स्वातन्त्र्येणोपादानात् सन्निध्यतिक्रमादेः प्रकीर्णकानुप्रवेशाहणादानादावुत्सर्गतोऽपराधा १ मूले अाह्वानमेव च इति पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy