SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२२ www.kobatirth.org दण्डविवेकः । Acharya Shri Kailassagarsuri Gyanmandir तथाच विष्णुः,उत्कृष्टेन एकासनोपवेशौ अपकृष्टजः कन्यां कृताङ्की निव्वास्य इति । उत्कृष्टो ब्राह्मणः । अपकृष्टजः शूद्र इति रत्नाकरः । नारायणेन तु उत्कृष्टस्योत्तमजातेरपकृष्टजः क्षत्रियादिरिति व्याख्यातम् । तथा कन्यामिति क्षचियविशोः । शूद्रस्य च तदुभयं सहासनेच्छायां स्फिचमिति शूद्रस्य ब्राह्मणसहासनेच्छायामिति । कृताङ्कस्तप्तलोहशलाकया कृतचिह्नः । तच्चासनाकारमौचित्यात् । स्फिक् श्रोण्येकदेशः । स्फिचमित्येकत्वं विवक्षितमेव स्फिगेकञ्चास्य कर्त्तयेदिति मत्स्यपुराणदर्शनात् । तत् कर्त्तनञ्च तथा कार्य्यं यथा पुरुषो न म्रियेत इति कुल्लकभट्टः । धर्मकोषे तु — मेद्रं वाऽप्यस्य कर्त्तयेदिति पठितम् । गौतमः, - आसन-शयन- वाक् पथिषु समत्वेप्सुर्दण्ड्यः शतम् । वाक्तमत्वं युगपद्वादः पथि समत्वं सहगमनम् । आपस्तम्बः,— W पथि शय्यायामासन इति समौभवतो दण्डस्ताडनम् । पूर्व्वच शतदण्डत्वाभिधानं शूद्रस्य धनपरत्वपक्षे ॥ कात्यायनः, प्रव्रज्यावसितं शूद्रं जपहोमरतन्तथा । वधेन शामयेत् पादं दण्ड्यो वा द्विगुणं दमम् ॥ १ ७ पुस्तके धनवत्त्वपक्षे । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy