SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साहसदगडः। न च सन्निहित एव श्रोत्रियसाधावनिमन्त्रिते हैरण्यो माषोऽनैवंभूते राजत इति व्यवस्थेति वाच्यम्। तरिकः स्थानिकं शुल्कं गृह्णन् दाप्यः पणान् दश । ब्राह्मणान् प्रातिवेश्यांश्च तहदेवानिमन्त्रयन् ॥ इति याज्ञवल्क्यवचनविसंवादात् । मम तु सन्निहितनिर्गुणब्राह्मणविषयत्वेनास्य सामञ्चस्यात् । हिजे भोज्ये तु सम्प्राप्ते पापे नास्ति व्यतिक्रमः । इति कामधेनुलिखितमत्स्यपुराणदर्शनात् । तस्मादुत्तरवाक्यं यथाव्याख्यातविषयमेव । निमन्त्रणास्वीकारिणो भोजनादायिनोऽभुञ्जानस्यानिमन्त्रयितुश्च चतूर्णामुक्तरूपाणां सौवर्ण एव माषको दण्डः । उत्तरयोईिगुणभोजनदानमधिकम् । अस्तु वा सन्निहितेष्वेव गुणतारतम्यात् सौवर्णो माषो दशपणा राजतो माष इति व्यवस्था । हलायुधस्त्वाह तुल्यरुपे विप्रे हैरण्यं माषकं ततो होने दशपणाः, ततो हौनतरे रूप्यमाषकमिति व्यवस्था । अथाहेतुकप्रतिग्रहत्यागे विष्णुः, आमन्त्रितो हिजो यस्तु वर्तमानः प्रतिग्रहे। निष्कारणं न गच्छेत्तु स दाप्योऽष्टशतं दमः ॥ प्रतिग्रहार्थं निमन्त्रितो विना कारणेन यो न गच्छति तस्याष्टोत्तरशतपणो दण्ड इत्यर्थः । इह च प्रतिग्रहान्तरे वर्तमानस्य प्रकृते वैमुख्यं दातुहोषमुल्लिखतौति वाक्यपारुष्यवदेष दोषः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy