SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साहसदण्डः । ३०५ आसनादाने पूजनार्हस्यापूजने पञ्चविंशतिरित्यनुषञ्चनौयं त्रयाणां तुल्यरूपत्वात् । [एवं सुवर्णमाषः पूर्वयोरपि द्रष्टव्यस्त्रयाणां तुल्यरूपत्वात् ।। प्रातिवेश्यब्राह्मणनिमन्त्रणातिकामी निमन्त्रणावसरे प्राप्ते दोषं विना निरन्तरगृहवासिब्राह्मणनिमन्त्रणास्वीकारौ। निकेतयितुर्निमन्त्रयितुः । शतदण्डानुवृत्तौ 'पन्थानञ्चाददानस्तु' इति मनुवचनमाचार्यादिपूज्यतमविषयमित्यविरोधः । मनुः, प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिदिजे । अर्हावभोजयन् विप्रो दण्डमर्हति माषकम् ॥ आनुवेश्य एकान्तरग्रहवासी। कल्याणमिह माङ्गल्यकर्म, विंशतिदिजा भोज्यन्ते यत्र तविंशतिदिजम् । एतदभयं ब्राह्मणभोजननिमित्तमाचोपलक्षणम्। विप्र इति वचनात् क्षत्रियस्य न दोष इति नारायणः। तथा, श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येषु भोजयन् । तदन्नं द्विगुणं दाप्यो हैरण्यञ्चैव माषकम् ॥ श्रोत्रियः सदाचारवान्। श्रोत्रियं तथाविधमेव, साधुं गुणवन्तम्। स च प्रकृतत्वात् प्रातिवेश्यानुवेश्यरूप एवेति कुल्लूकभट्टः। भूतिकृत्येषु विवाहादिष्विति मनुटौका । तदन्नं तद्भोज्यमन्त्रं द्विगुणं दाप्यः, अभोजितायेति रत्नाकरः। १ घ पुस्तके [ ] चिहितांशो नास्ति । 39 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy