SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ साहसमाह । नारदः, मनुष्यमारणं स्तेयं परदाराभिमर्षणम् । पारुष्यमुभयच्चैव साहसं पश्वधा स्मृतम् ॥ अत्र प्रकाशकृतत्वलक्षणमाक्षिप्तं सामान्यलक्षणम् । पञ्चधेति विभागः प्राणिहिंसा स्तेयं परदारपरिग्रहो वाक्पारुष्यं दण्डपारुष्यमित्युद्देशः । इह च साहसे रक्षितुर्ज्ञानवारणं नास्ति, स्तेये तु तदस्तौति तस्यासा हसत्वादुक्तविभागानुपपत्तिः स्तेयलक्षणे साहसलक्षणे चाव्याप्तिः । रक्षिसमक्षकृतस्यापि परद्रव्यग्रहणस्यापवे स्तेयत्वादतसमक्ष तस्यापि परदारपरिग्रहादेः साहसत्वात् । अतस्तदुभयमनूद्याप्युपेक्ष्य— सहसा क्रियते कर्म्म यत्किञ्चिद्दलदर्पितैः । तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥ - इति नारदेनैवोक्तम् । एवञ्च समाख्यानुगतं बलकृतत्वमाचमेतन्मते साहसलक्षणम् । तदेतत् स्पष्टमाह, आधिः साहसमाक्रम्य स्तेयमाधि लेन तु । श्रधिः पौडनं तदलेन यच क्रियते तत्साहसम् । यत्र तु रक्षितुरपवार्य्य छलेन क्रियते तत् स्तेयमित्यर्थः । एतेन स्तेयस्य द्विरूपत्वमुक्तम् । अत एव स्तेयादौनामविशेषश्रुतावपि बलावष्टम्भेन क्रियमाणानामेषां साहस For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy