SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रनष्टाधिगताधिकारः । Acharya Shri Kailassagarsuri Gyanmandir अथ शस्यघातत्तथा इति यदुद्दिष्टम् । तत्र मार्कण्डेयपुराणे, - - सोत्सेधवप्रप्राकारं सर्व्वतः खातकानृतम् । योजनाŚाईविष्कम्भमष्टभागायतं पुरम् । तदर्डेन तथा खेटं तत्पादोनञ्च कर्व्वटम् ॥ तथा शूद्रजनप्राया सुसम्मृषीवला । क्षेत्रोपभोगभूमध्ये वसतिग्रामसंज्ञिता ॥ तत्पादोनमिति तत्पदेन खेटानुकर्षः सन्निकर्षात् उत्तरोत्तरमपकर्षदर्शनाच्च । दानसागरे तु ग्रामशतद्दयप्रधानभूतो ग्रामः कर्व्वटः क्रोशैकविस्तारो ग्रामः खेट इत्युक्तम् । ग्रामादिषु परिहर्त्तव्यां तत्परिसरभूमिमाह । २७७ याज्ञवल्क्यः, ग्रामे तु या गोप्रचारभूमौ राजवशेन वा । धनुःशतं परौणाहो ग्रामक्षेत्रान्तरं भवेत् ॥ द्वे शते कस्य स्यान्नगरस्य चतुःशतम् । प्रथमं ग्रामपदं ग्रामनगरादिवासिलोकपरं धनुश्चतुर्हस्तो दण्डः। ग्रामवासिजनापेक्षया वा भूम्यल्पत्वमहत्त्वानुसारेण वा राजाज्ञया वा गोप्रचारो गोप्रचारणार्थो भूभागः कर्त्तव्यः । तस्य च परौणाहो ग्रामादौनां क्षेत्रस्य चान्तररूपः क्रमेणैकद्विचतुःशतधनुःपरिमाणः कार्य्य इत्यर्थः । अच खेटस्य धनुःशतचयरूपमन्तरालम्बनलभ्यं ग्रामादिपरिमाणतारतम्येनान्तरालतारतम्यदर्शनात् । १. व पुस्तके कर्पटं कचित् खर्व्वटं । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy