SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकीर्णदण्डः । २०१ यदाह दक्षः,पारिवाज्यं गृहीत्वा यः स्वधर्मेषु न तिष्ठति । श्वपादेनाङ्कयित्वा तं राजा शौघं प्रवासयेत् ॥ एतच्च ब्राह्मणविषयम् । अन्यत्र त्वाह नारदः,प्रव्रज्यावसिता यत्र त्रयो वर्णा दिजातयः । निवासं कारयेद्विग्रं दासत्वं क्षत्रविन् नृपः॥ अत्र शूद्रस्यापि दासत्वमेव कैमुतिकन्यायात् । वर्णसङ्करदोष इत्यत्र देवीपुराणमेव,मद्याद्यैर्गहितैयंत्र सङ्करः शिवयोगिनाम् । पराष्ट्रभयं तत्र कारणञ्चान्यथागमः ॥ शिवयोगिनामिति सम्भवाभिप्रायम्। अन्यचापि देशादपसारणमेव दण्डः। अन्यथागमस्त्रयौवाह्यः शैवाद्यागमः। राजधर्मान् स्वधर्मानिति समभिव्याहारेणाभिधानमविरोधख्यापनार्थम् । तथाच याज्ञवल्क्यः,निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ सामयिकःसमूहयोगक्षेमार्थः, यथा पौराणामुत्तमानाच' मास राजोपस्थानं कार्यमित्यादिरिति रत्नाकरः। समयान्निष्यन्नो गोप्रचारोदकरक्षण-देवगृहपालनादिरूप इति मिताक्षरा । राजधर्मों मम कृते मासं शान्तिः करणीया इत्यादिरूपो राजकृतो धर्मः। १ घ पुस्तके महत्तमानाच। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy