SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५४ Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । पौडाकर्षश्चांशुका वेष्टपदाध्यासश्चेति समाहारे इन्द्व इति रत्नाकरः । अस्मिन् समुचितेऽयं दण्ड इति मिता क्षराकारः । कामधेनौ तु पौडाकषींशुकावेष्टेऽति पठितं तत्र पौडायै यस्याकर्षस्तेनांशुकेनेत्यर्थः । अंशुका तत्रोपचारेण तद्यपदेशात् पादादौनामन्यतमं गृहीत्वा उन्मुञ्चत्याकर्षत्यसौ दशपणान् दण्ड्यः । यस्त्वंशुकेनावेष्ट्य गाढमापौयाकृष्य पादेन परमध्यास्ते तस्य शतपणदण्ड इति समुदायार्थः । मनुनारदौ, केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायाञ्च ग्रौवायां दृषणेषु च ॥ अ कुल्लूकभट्टेन पूर्व्वश्लोकस्थं दर्पादित्यनुवर्त्तितम् । हस्ताविति द्विवचनमेकेनापि हस्तेन ग्रहणे हस्तद्दयछेदनार्थं, दाढिका श्मश्रु । हारौतः, - अधोवर्णस्योत्तमवर्णानामाक्रोशा क्षेपाभिभवेऽष्टौ पुराणाः । ग्रौवासञ्जन-गलहस्तन - कचवक्त्रप्रहरणेषु चिंशत् । रोमो - त्पाटनतर्ज्जनावगूरणेषु त्रिषष्टिः । शिखाकर्णाङ्गभङ्गछेदेषु शितम् । पादताडने ऽनृताभिशंसने तदङ्गच्छेदः पञ्चशतं वा । आद्येषु पादोनं किञ्चित् स्वामित्वादादिवर्णत्वाच्चोत्तमानामीशानतमो हि ब्राह्मणः । चिंशदित्यादौ पुराणा इत्यनुषङ्गः । व्याख्याशेषो वाक्पारुष्ये द्रष्टव्यः। अङ्गपदमच पाणिपादादिपरमिति शेषः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy