SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ दण्डपारुष्यदण्डः । तच बृहस्पतिः - हस्त-पाषाण-लगुड़ैर्भस्म कर्दम- पांशुभिः । आयुधैश्च प्रहरणं दण्डपारुष्यमुच्यते ॥ अच भस्मादिभिर्द्दण्डादिभिरायुधैरिति करणचैविध्यात् प्रहरणस्य चिविधत्वमुक्तं तत्र यथोत्तरं बलवत् । तथा हि नारदः, - हौनमध्योत्तमानाच्च द्रव्याणां समतिक्रमात् । 'अवगूरण- निःशल्कपातन-क्षतदर्शनैः ॥ तस्यापि दृष्टं चैविध्यं मृदुमध्योत्तमक्रमात् । अवगूरणं शस्त्राद्युत्थापनं निःशल्क पातनमरुधिरं शस्त्रादिघातनम् । अत्र प्रहरणस्य प्रारम्भो निष्पत्तिः फलानुबन्ध इत्यस्य वैचित्र्यात् त्रैविध्यमुक्तं मृदुमध्यमोत्तमक्रमादित्यनेन यथोत्तरं बलवत्वमुक्तम् । सर्व्वविधञ्चैतत् स्वयंकृतमन्यद्दारकृतश्चेति द्विविधम् । तथा द्वयोः परस्यरेण प्रवर्त्तितमेकतरेण वेति दिविधम् । प्रहर्त्ता चैकानेकभावादुत्तमादिभेदाच्चानेकविधः स्थावर - जङ्गमभेदाद्द्द्दिपदचतुष्पदभेदाच्चास्य द्वैविध्यमधिकम् । एवमाढ्यत्वानाढ्यत्वादयोऽपि द्रष्टव्यास्तत्र ते विशेषा दण्डविशेषेापयोगिनः प्रमुख एवानुसन्धेयाः । १ क्वचित्पाठः अवगोरण निःशङ्क । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy