SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मणादौनां परस्पराक्षेपे । २१७ नारदः,श्वपाक पशु चाण्डाल वेश्या वधकत्ति'षु । हस्तिप व्रात्यदासेषु गुवाचार्यातिगेषु च ॥ मर्यादातिक्रमे सद्यो घात एवानुशासनम् । न च तद्दण्डपारुष्ये दोष'माहुर्मनीषिणः ॥ यमेव ह्यतिवर्तेरन्ते सन्तं जनं प्रति । स एव विनयं कुर्य्यान्न तविनयभाक् नृपः ॥ मला ह्येते मनुष्याणां धनमेषां मलात्मकम् । अपि तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥ श्वपाकः क्षत्रियायामुग्राज्जात इति रत्नाकरः। उग्रस्त्रियां क्षत्रियाज्जातः स इति तत्त्वम्,क्षत्राज्जातस्तथोग्यान्तु श्वापक इति कौर्त्यते । इति मनुदर्शनात् । उग्रस्तु,"शूद्रायां क्षत्रियाज्जातं प्राहुरुग्र इति विजा" देवलेनोक्तः। पशुशब्द क्लीवपरः मिताक्षरायां पण्डेत्येवात्र पठितम्, चाण्डालः शुद्राह्राह्मण्यां जातश्च। वधकत्तिः परवध एव वृत्तिौवनं यस्य स वधक इति स्वार्थे कन् इति रत्नाकरः। कामधेनौ कल्पतरौ च वेश्यासु वधकर्तुधिति स्पष्टमेव पठितम् । अत्र मिताक्षरायां व्यङ्गेषु वधकर्तृष्विति पाठः । १ मूले पाठः-व्यङ्गेषु वधत्तिषु। २ मूले स्तेयमिति पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy