SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ दण्डविवेकः। व्याख्यातञ्च, अनिष्टममित्रस्तोत्रादि तस्य प्रवक्तारं प्रकर्षेण भूयो भूयो वक्तारं तस्यैव राज्ञ आक्रोशिनं निन्दाकरणशौलं तदीयस्य च मन्त्रस्य स्वराष्ट्रद्धिहेतोः परराष्ट्रक्षयकारस्य च भेत्तारममित्रकर्णेषु जपन्तं जिह्वामुतकृत्य स्वराष्ट्रान्निष्काशयेदिति । यत्त,-विद्यन्टपदेवानां क्षेप उत्तमसाहसः । इति याज्ञवल्क्यवचनं तच लघुतः क्षेपो विवक्षित इति न विरोधः। यच्च राजानुवृत्तौ कात्यायनः,__ अप्रियस्य च यो वक्ता वधं तेषां प्रकल्पयेत् । ये राज्ञोऽप्रियवादशीलास्ते वध्या इत्यर्थ इति रत्नाकरः। एतदब्राह्मणविषयम्। इह यत्र विशिष्टदण्डो नोपदिष्टस्तत्र निष्ठुराश्लीलतौबेषु पारुष्येषु यथोत्तरं दण्डगौरवमूहनौयमित्याह । उशनाः,यत्र नोक्तो दमः पूर्वैरानन्त्याच महात्मभिः । तत्र कार्य परिज्ञाय कर्त्तव्यं दण्डधारणम् ॥ एतत्तु विषयान्तरेऽपि द्रष्टव्यं न्यायसाम्यात्। अथ नारदः, यच स्यात् परिहारार्थं पतितत्वेन कीर्तनम् । वचनात्तत्र न स्यात्तु दोषो यत्र विभावयेत् ॥ अन्यथा तुल्यदोषः स्यान्मिथ्योक्तावुत्तमो दमः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy