SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथायोनिविषयाभिगमे दण्डः। तबायोनिपदं मानुषौयोनिव्यतिरेकपरं तस्य दौ भेदौ स्त्रीपुंसयोरवयवान्तरं गवादियोनिश्च । तयोरङ्गान्तराभिगमे दण्डमाह याज्ञवल्क्यः, अयोनौ गच्छतो योषां पुरुषं वापि मेहतः । चत्वारिंशत्पणो दण्डस्तथा प्रव्रजितागमे ॥ मिताक्षरायां चतुर्विंशतिको दण्ड इति पठितम् । अयोनौ योषामिति-अयोनौ मुखे द्रविडोत्कलादौ दृष्टत्वात् कामागमेषु श्रुतत्वाच्च । तत्र हौदमौपविष्टकमित्याख्यायते जघन्यस्य कर्मणः उपविष्टात् ' प्रवर्त्यमानत्वात् । आह च वात्स्यायनः, तस्या वदने यज्जघनकर्म तदोपविष्टकमिति । इह याः स्वोपविष्टकमिच्छन्ति न ताभिः सह युज्यन्ते इत्यादिवचनाद्देश्यादास्यादौ फलतो रक्षावगमात् । धर्मपत्न्यां सुव्रतायां मुख मैथुनकारिणः । पत्नौ विधातुर्भवति - - - - - - - - । इति कर्मविपाकसमुच्चयवचनसम्बादाच्च धर्मपत्नौमात्रे निषेधः पर्यवस्यति एवञ्च तत्रैवायं दण्डः । १ घ उपरियात् । २ ग घ पुस्तके पत्नीविभक्तिर्भवति । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy