SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परदाराभिमघणदण्डः । प्रेष्यासु दासौषु एकभक्तासु एकपुरुषमाचावरुद्धासु प्रजितासु बौद्धादिव्रतचारिणौषु । किञ्चिदिति शक्त्यनुरूपमिति नारायणः । किञ्चिन्मनुनैव दर्शितसुवर्णापेक्षयाऽल्पमिति रत्नाकरः । अत्र प्रतिषिद्धे चारणादिस्त्रीसंग्रहणे यो दण्डो विवक्षितविवेकेन पर्यवस्यति तदपेक्षया अल्पमिति प्रतिभाति पूर्वस्य संग्रहणविषयत्वादच तु सम्भाषाभिधानात्। तब च सामान्यतो बृहस्पतिना पूर्वसाहसस्य विधानात्। चारणादिस्त्रीषु ततोऽप्यपकर्षस्यौचित्यात् मनूक्तस्य सुवर्णस्य गुरुत्वात् अत्यन्तधनिकादिसंग्रहणविषयकत्वेन व्यवस्थाया अवश्यवक्तव्यत्वात् । अथ शङ्खलिखितौ,सर्वेषां स्वदारनियमः स्वकार्यप्रतिपत्तिश्च धर्मो येन येनाङ्गेनापराधं कुर्यात्तदेवास्य छेत्तव्यम् । अष्टसहस्रं वा दण्ड इत्यन्यचैवं ब्राह्मणाददण्ड्यो हि ब्राह्मणः । ___ अङ्गेन हस्तादिना ब्राह्मणवर्जमयं दण्डः सर्वेषां ब्राह्मणवर्जमित्यन्वयादिति रत्नाकरः। एतच्च भावदोषाभावे सतौति नेयं सम्भाषश्च परस्त्रिया इति नारदवचनैकमूलत्वात् लाघवादङ्गच्छेदमाचपरम् । मनुः, परदाराभिमर्षे तु प्रवृत्तांस्तान् महीपतिः । उद्देजनकरैर्दण्डैश्चिहूयित्वा प्रवासयेत् ॥ तत्समुत्थो हि नो कस्य जायते वर्णसङ्करः । येन मूलहरो धर्मः सर्वनाशाय कल्पते ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy