SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५४ www.kobatirth.org दण्डविवेकः । Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः परिच्छेदः । अथ परदाराभिमर्षणदण्डः । तच परदारपदेन स्वभार्थ्याव्यतिरिक्ता स्त्रौ विवक्षिता । सा विविधा परिणौता अपरिणीता चेति । तयोः परिणीता अनेकविधा साध्वी बन्धकौति, उत्तमा हौनेति 'स्वजना अस्वजनेति, गुप्ता अगुप्ता चेति, लौवादिभार्थ्या अन्येति । परिणीता चिविधा कन्या व्रात्या वेश्येति । एते विभाजकोपाधयो वलछलानुरागादिप्रयोग वद्दण्डभेदाय भवन्तौति परिभाषान्यायेन प्रमुखे दर्शिताः । आसामभिमर्षणमपि द्विविधं संग्रहणमभिगमश्च । तच संग्रहणं नाम समीचीनं ग्रहणं परस्त्रिया आत्मीयता - करणम् । तद्दिभजते बृहस्पतिः, - पारुष्यं द्विविधं प्रोक्तं साहसश्च द्विलक्षणम् । पापमूलं संग्रहणं चिप्रकारं निबोधत ॥ प्रकारानाह, - बलेापाधिहृते द्वे तु तृतौयमनुरागजम् । एतदभिगमेऽपि द्रष्टव्यम् । तस्याप्येतत्पूर्वकत्वात् । चयमपि पुनर्विभजते । तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् । १ ग पुस्तके सुजना व्यसुजनेति । २ ग बलात् परिहृते । घ - वलोपाधिकृते । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy