SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३२ व्यासः,— www.kobatirth.org कार्षापणाः । दण्डविवेकः । पशुहर्त्तुश्चाईपादः तौक्ष्णशस्त्रेण कर्त्तयेत् । अत्र मिश्रैरतौक्ष्णेति पठित्वा कुण्ठकुद्दालादिनेति व्याख्यातम् । तथा - विष्णुः, Acharya Shri Kailassagarsuri Gyanmandir अथ शङ्खलिखितौ, अजाविकेऽर्द्धत्रयोदशपणाः । नकुलविडालापहरणे चयः अजाव्यपहार्येककरः कार्य्यः । अनयोर्व्विरोधे धनशून्यचौर विषयं विष्णुवचनं यज्ञो पयुक्ताऽजाविहरणविषयं वेति रत्नाकरः । अथोत्क्षेपक· ग्रन्थिभेदकयोर्दण्डमाह । व्यासः, उत्क्षेपक - ग्रन्थिभेदौ सन्दशेन नियोजयेत् । सन्दशः कराङ्गुष्ठप्रदेशिन्यौ । अच मनुः, अङ्गुलौग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । featये हस्तपादौ च तृतौये वधमर्हति ॥ एवमन्यचापि पुनः पुनः करणाद्दण्डाधिक्यमिति नारायणः। श्रृङ्गुलौ अङ्गुष्ठप्रदेशिन्यौ । ग्रहे अपहरणे, हस्तचरणाविति द्विवचनदर्शनादेकं हस्तमेकं चरणमित्यर्थः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy