SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्तेयदण्डः । १२६ महान्तः पशवो हस्त्यादयः, मध्यमा वृषादयः । एतद्विशेषविहितेतरविषयम् । तत्र महापशुषु विशेषमाह तथा, Acharya Shri Kailassagarsuri Gyanmandir मनुः, - "असन्दितानां सन्दाता सन्दितानां विमोक्षकः । दासाश्वरथहर्त्ता च प्राप्तः स्याच्चौर किल्विषम् ॥ ―――――――――――――――― महापशूनां हरणात् शस्त्राणामौषधस्य च । कालमासाद्य कार्य्यच्च दण्डं राजा प्रकल्पयेत् ॥ सन्दितानां चरणबद्धानामिति कल्पतरुः । सन्दाता हरणहेतुबन्धनकारौ । विमोक्षको हरणहेतुमोक्षकारौ । चौरकिल्विषं चौरदण्डं शारीरमार्थं वा, स च मारणाङ्गछेदनापहाररूप इति मनुटौकायां कुल्लूकभट्टः । नारायणस्तु असन्दितानामबद्धानाम्पशूनामस्वामिकतयोत्सृष्टानां वाहनादिकर्त्ता सन्दाता । सन्दितानामप्यन्यदौयपशूनां तद्विरोधाचरणबुड्या मोचयिता विमो क्षकः । दासादिहर्त्ता तु कथञ्चित्प्रतारणादिना तैः स्वकार्य्यं कारयिता तेन तदस्तेयेऽपि तत्तत्कर्म्मण्येव स्तेयाति' देशोऽयमित्याह । युक्तञ्चैतदेव यद्यपौदं न स्तेयं तथापि न विरोधः स्तेयातिदेशस्यापि स्तेयदण्डप्रात्यर्थत्वात् । कालेो युडोपयोगानुपयोगसमयः । कार्य्यमुपयोगस्य भूयस्त्वाल्पत्वे । एतत् सर्व्वमालेाक्य च कालसंगृहीतमुपलक्षितं वा । वाजिवारणादेगौरवागौरवे विशिष्टत्वाविशिष्टत्वे च क्वचि - १ मूले २ क ख पुस्तकद्वये – कम्मण्येवातिदेशोऽयम् । 17 - कासन्धितानां सन्धाता सन्धितानां च मोक्षकः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy