SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२४ www.kobatirth.org दगड विवेकः । यत्तु,— सन्धिच्छेत्ताऽनेकविधं धनं प्राप्नोति वै गृहात् । प्रदाप्य स्वामिने सर्व्वं हृतं नृपे निवेशयेत् ॥ इति व्यासवचनम् । कात्यायनः, - --- Acharya Shri Kailassagarsuri Gyanmandir तस्य हृतदापनमात्रे तात्पर्य्यमनेकधनलाभाभिधानन्तु पक्षप्राप्तानुवाद एव । अतएव, सन्धिच्छिदो हृतं दाप्याः शूलमारोपयेत्ततः । इति बृहस्पतिना हृतमित्येवोक्तं न तु स्तेयं तस्यानेक विधत्वादिति । तरवापर्य्याप्तेऽपि चौर्य्यादौ दण्डमाह - आरम्भे प्रथमो दण्डः प्रवृत्ते मध्यमः स्मृतः । यस्य योऽभिहितो दण्डः पर्य्याप्तस्य स वै भवेत् ॥ इति । अथैतेषु सन्धिच्छिदो दण्डमाह । मनुः, सन्धिं छित्त्वा तु ये चौर्यं राचौ कुर्व्वन्ति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तौक्ष्णशूले निवेशयेत् ॥ t अत्र हृतदापनमपराधख्यापनच्चाधिकमिति प्रागुक्तम् । पान्यमुषो दण्डमाह बृहस्पतिः, तथा पान्यमुषो वृक्षे गले बद्ध्वाऽवलम्बयेत् ॥ १ क ख पुस्तकदये हृत्वा । ――――――――――――――――― For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy