SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ दविवेकः । कुल्लूकभट्टेन तु वाक्यस्यास्य द्यूतप्रकरणान्तःपातित्वात् कितवप्रसङ्गेणान्येषामभिधानमित्युक्तम् । नारायणेन तु निर्व्वासयेत् बहिरेव वासयेदिति व्याख्यातम् । अतः कुशीलवान्नटानित्यादिव्याख्यानाच्च प्रकाशतस्करत्वमेषामेव न मन्यत इति गम्यते । अथ येषु प्रकाशतस्करत्वेनोपदिष्टेषु विशिष्य दण्डो नोपदिष्टस्तेषु कथं तन्निर्णयो दोषानुसारादिति प्राञ्चः । तथाहि सर्व्वानेतानभिधाय — नैगमाद्या भूरिधना दण्ड्या दोषानुसारतः । यथा ते नातिवर्त्तन्ते तिष्ठन्ति समये यथा ॥ इति व्यासवचनं निबन्धेषु पठितम् । तच प्रतिभाति समभिव्याहृतानामेकत्र यो दण्डः श्रुतः स एवान्यचापि बोद्धव्यः साहचर्य्यात् । तेषु द्वित्राणां यत्र दण्डभेदश्रुतिस्तचापराधस्य गौरवलाघवाभ्यामभ्यासानभ्यासाभ्यां वा दण्ड्यस्य धनवत्त्वाधनवत्त्वादिभिर्व्वा व्यवस्था । यच त्वेकचापि दण्डश्रुतिर्नास्ति तत्र तुल्यन्यायतया दोषानुसारेण वा तत्कल्पनमिति । सोऽयंप्रकार एवं - जातीयेऽन्यचापि द्रष्टव्यः । के पुनस्ते तत्र बृहस्पतिः, - ―――――――――――――――――――――― नैगमा वैद्यकितवाः सभ्या उत्कोचवञ्चकाः । दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपिकाः ॥ १ ग पुस्तके सभ्योत्कोचकवञ्चकाः । घ ङ पुस्तके सभ्यौत्कोचिक For Private And Personal Use Only क 1
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy